SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आभादेव तथा त्याह-दु ESSASUSASHISHUSHUSHUSHOR त्याह-'प्रतीतिगर्भया' अनुभवसङ्गतया 'युक्त्या किलैतदवसीयते यदुत-शुभादेरेव सौख्यादीति ॥ १३१॥ तन्मताभिधित्सयाऽऽह-त आहुरित्यादि, त आहुर्नाशुभात्सौख्यं, किन्तु शुभादेव, कुत इत्याह-तद्वाहुल्यप्रसङ्गतः सौख्यबाहुल्यप्रसङ्गात् , अत्रैवोपपत्तिः-बहवः पापकर्माणः प्राणिनः, असत्प्रवृत्तेः, विरलाः शुभकारिणः, तथा दर्शनादिति ॥ १३२ ॥ यदि नामैवं ततः किमित्याह-'न चैत'दित्यादि, नचैतत्-सौख्यबाहुल्यं दृश्यते लोके, कुतः इत्याह-दुःखबाहुल्यदर्शनात् , प्रतीतिसिद्धेः, यत एवं शुभात्सौख्यं ततः सिद्धं, तत्कार्याल्पत्वेन तदल्पत्वोपपत्तेः, अतोऽन्यच्चापिदुःखं चाऽन्यतः, अन्यतः अशुभात् सिद्धं, तत्कारिबहुत्वेन तद्बहुत्वसिद्धेरिति ॥ १३३ ॥ वार्तान्तरमाह-'अन्ये पुन'रित्यादिनाअन्ये पुनरिदं श्राद्धा, ब्रुवते आगमेन वै । शुभादेरेव सौख्यादि, गम्यते नान्यतः क्वचित् ॥ १३४॥ अतीन्द्रियेषु भावेषु, प्राय एवंविधेषु यत् । छद्मस्थस्याविसंवादि, मानमन्यत न विद्यते ॥ १३५॥ । | यच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् । क्वचित्तथोपलम्भेऽपि, सर्वत्रादर्शनादिति ॥ १३६ ॥ सर्वत्र दर्शनं यस्य, तद्वाक्यात् किं न साधनम् ? । साधनं तद्भवत्येवमागमात्तु न भिद्यते ॥ १३७॥ । अन्ये पुनः 'इदं वक्ष्यमाणलक्षणं 'श्राद्धाः' श्रद्धावन्तः ब्रुवते–'आगमेन वै' स्वा(आ)गमेनैव, किमित्याह-शुभादेरेव सौख्यादि गम्यते, आदिशब्दादशुभात् दुःखमिति, नान्यतः क्वचित् , नान्येन मानेनेत्यर्थः ॥ १३४ ॥ किमेतदेवमित्याह
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy