SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ शास्त्र ० हारि० १ चार्वाक - स्तबकः ॥ १८ ॥ स्वभाव एष जीवस्य यत्तथापरिणामभाक् । बध्यते पुण्यपापाभ्यां माध्यस्थ्यात्तु विमुच्यते ॥ १२२ ॥ सुदूरमपि गत्वेह विहितासूपपत्तिषु । कः स्वभावागमावन्ते, शरणं न प्रपद्यते ? ॥ १२३ ॥ 'क्लिष्टात्' सङ्केशबहुलात् हिंसाद्यनुष्ठानात् सकाशात् प्राप्तिः क्लिष्टस्य कर्मणः - ज्ञानावरणादेः, निदर्शनमाह-यथा 'अपथ्यभुजः' अपथ्यभोजनात् सकाशाद् व्याघेः प्राप्तिः, अक्लिष्टस्य कर्मणो 'विपर्ययात्' अहिंसाद्यनुष्ठानादिति ॥ १२१ ॥ किमेतदेव मित्याह - 'स्वभाव' इत्यादि, स्वभाव एष जीवस्य 'यत्' यतः स्वभावात् तथापरिणाम भाकू - हिंसादिपरिणामभाकू बध्यते पुण्यपापाभ्यां यथायोग्यं, माध्यस्थ्यात्तु विमुच्यते, सामायिकपरिणामादित्यर्थः ॥ १२२ ॥ न च स्वभावपक्षो न ज्यायानित्याह- 'सुदूरमपी' त्यादिना, 'सुदूरमपि' पर्यन्तमपि गत्वेह मार्गे 'विहितासु' कृतासु आहितासु वा उपपत्तिषु को वादी बौद्धमीमांसकादिः स्वभावागमावन्ते, स्वहेतोरेव क्षणस्थितिधर्माज्जातः, सोऽपि तत्स्वभाव एव, अन्तर्वेदीहिंसाया मदोष आगमादित्येवं शरणं न प्रपद्यते ?, सर्व एव प्रपद्यत इत्यर्थः ॥ १२३ ॥ चोदक आहप्रतिपक्षस्वभावेन, प्रतिपक्षागमेन च । बाधितत्वात्कथं ह्येतौ शरणं युक्तिवादिनाम् ? ॥ १२४ ॥ प्रतीत्या बाध्यते यो यत्, स्वभावो न स युज्यते । वस्तुनः कल्प्यमानोऽपि, वह्न्यादेः शीततादिवत् ॥१२५॥ 'प्रतिपक्षेत्यादि, प्रतिपक्षस्वभावेन वाचि (बाघ) केन प्रतिपक्षागमेन च तद्विरुद्धेन बाधितत्वात् कारणात्कथं हि 'एतौ' स्वभावागमौ शरणं युक्तिवादिनाम् ?, नैवेत्यभिप्रायः ॥ १२४ ॥ अत्रोत्तरमाह - 'प्रतीत्ये' त्यादिना, 'प्रतीत्या' अनुभवेन आगम स्वभावयोः शरणता ॥ १८ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy