________________
तस्माद्यथोदितात्सम्यगागमाख्यात्प्रमाणतः। हिंसादिभ्योऽशुभादीनि, नियमोऽयं व्यवस्थितः ॥१०॥
यदि नाम 'क्वचित्' चन्द्रोपरागादौ दृष्टः संवादस्तथाऽप्यन्यत्र वस्तुनि-पापादौ तद्भावः' संवादभावः तस्य' तद| भिधायकस्यागमस्य तत्त्वं (अविसंवादिस्वरूपत्वं ) वा 'कथं समवसीयते' कथं ज्ञायत इत्यर्थः॥ ११६ ॥ अत्रोत्तरमाह'आगमेंत्यादिना, आगमैकत्वं प्रत्यागमिकत्वेन समवसीयत इति, 'तच' आगमैकत्वं 'वाक्यादेः' वाक्यपदगाम्भीर्यादेस्तुल्यतादिना समवसीयते, एक एवायमागम इति, तथा 'सुवृद्धसंप्रदायेन' सम्पूर्णाभिव्यज्यमानोपलब्धसम्प्रदायाविच्छेदेन, तथा पापक्षयेण च सत्क्षयोपशमवद्भिः समवसीयत इति ॥११७ ॥ एतदेव समर्थयति-'अन्यथेत्यादिना, अन्यथा | यद्येवं नेष्यते ततो वस्तुतत्त्वस्य परीक्षैव न युज्यते, उपायाभावात्, एतदेवाह-आशङ्का-संशयलक्षणा सर्वगा यस्मात् छद्मस्थस्य प्रमातुरुपजायते, असदभिनिवेशेन ॥११८॥ एवं च सति-'अपरीक्षाऽपी'त्यादि, अपरीक्षाऽपि वस्तुतत्त्वस्य नो युक्ता, कुतः? इत्याह-गुणदोषाविवेकतः, को जानाति मानानामपरीक्षैव दोषवत् स्यात् , एवं महत्सङ्कटमायातमेतेन, कस्येत्याह-'आशङ्के न्यायवादिनः' पापादौ विशेषवाची अत्यन्तभिन्नो वाऽयमागम इति संशयवादिन इति ॥ ११९ ॥ निगमयन्नाह-तस्मादित्यादि, यस्मादेवं तस्माद्यथोदितात्सम्यगागमाख्यात्प्रमाणतः, किमित्याह-हिंसादिभ्योऽशुभादीनि नियमोऽयं 'व्यवस्थितः' प्रतिष्ठित इत्यर्थः॥ १२०॥ एतदेव भावयति-'क्लिष्टादित्यादिनाक्लिष्टाद्धिंसाधनुष्ठानात् , प्राप्तिः क्लिष्टस्य कर्मणः । यथाऽपथ्यभुजो व्याधेरक्लिष्टस्य विपर्ययात् ॥१२१॥