SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ १७ ॥ चन्द्रसूर्योपरागादेस्ततः संवाददर्शनात् । तस्याप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते ॥ ११५ ॥ 'हिंसादिभ्यः' हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यः किमित्याह - 'अशुभं कर्म' दुःखफलदं, 'तदन्येभ्यश्च' अहिंसादिभ्यश्च 'तत्' कर्म 'शुभं' सुखफलदं 'जायते' निष्पद्यते, नियमात् तदेवमेवेत्येवंरूपं मानात्कुतोऽयमिति च 'अपरे'सन्देहवादिन इति ॥ ११३ ॥ वार्त्तान्तरमाह - 'आगमाख्या' दित्यादिना, 'आगमाख्यात्' मानात् 'तदन्ये तु' असन्देहवादिनो, बुवत इति वाक्यशेषः, 'तच्च' आगमाख्यं मानं 'दृष्टाद्यबाधितं दृष्टेष्टाविरुद्धमित्यर्थः, तथा 'सर्वार्थविषयं ' सर्वपदार्थगोचरं नित्यं, प्रवाहरूपेण, व्यक्तार्थ 'परमात्मना' सर्वज्ञेन अप्रत्यक्षेण ॥ ११४ ॥ प्रामाण्यमाह -- ' चन्द्रे' त्यादिना, चन्द्रसूर्योपरागादेः 'ततः' आगमाख्यान्मानात् संवाददर्शनाद्धेतोः 'तस्य' आगममानस्याप्रत्यक्षेऽपि पापादौ विषये न प्रामाण्यं न युज्यते, किन्तु युज्यत एव ॥ ११५ ॥ पराभिप्रायमाह - 'यदी' त्यादिना - यदि नाम कचिद्दृष्टः, संवादोऽन्यत्र वस्तुनि । तद्भावस्तस्य तत्त्वं वा, कथं समवसीयते ? ॥ ११६ ॥ आगमैकत्वतस्तच्च, वाक्यादेस्तुल्यतादिना । सुवृद्धसम्प्रदायेन, तथा पापक्षयेण च ॥ ११७ ॥ अन्यथा वस्तुतत्त्वस्य, परीक्षैव न युज्यते । आशङ्का सर्वगा यस्माच्छद्मस्थस्योपजायते ॥ ११८ ॥ अपरीक्षाऽपि नो युक्ता, गुणदोषाविवेकतः । महत्सङ्कटमायातमाशङ्के न्यायवादिनः ॥ ११९ ॥ हिंसाहिंसादिभ्यः पापपुण्य योः सिद्धिः ॥ १७ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy