________________
PAGASARESISTARA
लोकायतमतं प्राज्ञैज्ञेयं पापौघकारणम् । इत्थं तत्त्वविलोमं यत्तन्न ज्ञानविवर्द्धनम् ॥ ११० ॥ इन्द्रप्रतारणायेदं, चक्रे किल बृहस्पतिः । अदोऽपि युक्तिशून्यं यन्नेत्थमिन्द्रः प्रतार्यते ॥ १११ ॥ तस्माद्दुष्टाशयकरं, क्लिष्टसत्त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥ ११२ ॥
'लोकायतमतं' नास्तिकदर्शनमतोऽपरमार्थतत्त्ववादत्वात् प्राज्ञैज्ञेयं 'पापौघकारणं पापसङ्घातनिमित्तम्, एतदेव |भावयति–'इत्थम्' उक्तेन प्रकारेण 'तत्त्वविलोम' परमार्थप्रतिकूलं यत् तथा ज्ञानविवर्द्धनं न, न तत्त्वसंवेदनो(नानु)पकार्येव, अपि तु प्रतिपक्षवृद्धिकारकमित्यर्थः॥११०॥ अस्य मूढजनविकल्पितविषयविभागनिराकरणायाह-इन्द्रेत्यादि, 'इन्द्रप्रतारणाय' वृत्रदानवव्यापत्तये 'इदं लोकायतमतं 'चक्रे' कृतवान् किल 'बृहस्पतिः' देवगुरुः, "अदोऽपि तदपि 'युक्तिशून्यं' युक्तिविकलं, 'यतो' यस्मान्नेत्थमिन्द्रः प्रतार्यते, दिव्यबुद्धित्वात्तस्य ॥ १११॥ तस्मादित्यादि, यस्मादेवं तस्माद् दुष्टाशयकरमज्ञानवृद्ध्या, 'क्लिष्टसत्त्वविचिन्तितम्' असमञ्जसत्वेन पापश्रुतमत एव हेतोः, यतश्चैवमतः सदा 'धीरैः' महासत्त्वैः 'वयं' वर्जनीयं नास्तिकदर्शन मिति लोकायतमतेनात्मवार्ता॥११२॥वार्त्तान्तरमाह-हिंसेत्यादिनाहिंसादिभ्योऽशुभं कर्म, तदन्येभ्यश्च तच्छुभम्।जायते नियमो मानात् ,कुतोऽयमिति चापरे?॥११३॥ आगमाख्यात्तदन्ये तु, तच्च दृष्टाद्यबाधितम् । सर्वार्थविषयं नित्यं, व्यक्तार्थं परमात्मना ॥ ११४ ॥
!