SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . शास्त्र० हारि० १ चार्वाक स्तबकः ॥ १६ ॥ अदृष्टं कर्म्म संस्काराः, पुण्यापुण्ये शुभाशुभौ । धर्माधम्र्मों तथा पाशः, पर्यायास्तस्य कीर्त्तिताः ॥१०७॥ हेतवोऽस्य समाख्याताः पूर्वं हिंसाऽनृतादयः । तद्वान् संयुज्यते तेन, विचित्रफलदायिना ॥ १०८ ॥ नैवं दृष्टेष्टबाधा यत्सिद्धिश्चास्यानिवारिता । तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते ॥ १०९ ॥ 'तस्मा’दित्यादि, यस्मादेवं तस्मात्तत् कर्म आत्मनो भिन्नं, सदिति वस्तु, न कल्पनामात्रं, 'चित्रं च ' नानाप्रकारं च, 'आत्मयोगि च ' आत्मसम्बन्धि च 'अदृष्टं' कर्मावगन्तव्यं 'तस्य' आत्मनः शक्त्यादिसाधकं तदभावेनोक्तयुक्त्या ( शक्त्या ) द्यभावादिति ॥ १०६ ॥ दर्शनाङ्गीकरणेनास्यैव पर्यायशब्दानाह - 'अदृष्ट' मित्यादिना, 'अदृष्ट' मिति वैशेषिकाः, 'कर्मेति जैनाः, संस्कारा इति सौगताः, पुण्यापुण्ये इति वेदवादिनः, शुभाशुभे (भौ ) इति गणकाः, धर्माधर्माविति साङ्ख्याः, तथा पाश इति शैवाः, सर्व एव वा सर्ववानिति, पर्यायाः 'तस्य' अदृष्टस्य कीर्त्तिता इति ॥ १०७ ॥ के पुनरस्य हेतवः ? इत्याह-हेतवः 'अस्य' अदृष्टस्य समाख्याताः, 'पूर्व' प्रारम्भे 'हिंसाऽनृतादयः पचेत्यभिधानात् यतश्चैवमतः 'तद्वान्' हिंसादिमान् संयुज्यते 'तेन' अदृष्टेन, किंविशिष्टेन ? इत्याह- 'विचित्रफलदायिना' (चित्रा) शुभफलदेनेति ॥ १०८ ॥ अयमेव सद्वाद इत्याह- 'नैव' मित्यादि, नैवमभ्युपगम्यमाने दृष्टेष्टबाधा उत्तेन प्रकारेण 'यद्' यस्मात्स्यात्, सिद्धिश्च 'अस्य' अदृष्टादेः 'अनिवारिता' न्याय्यैव, 'तत्' तस्माद् 'एनमेव' आत्मादृष्टवादं 'विद्वांसः' पण्डिताः 'तत्त्ववाद' परमार्थवादं प्रचक्षते, न तद्विपरीतवादमिति ॥ १०९ ॥ एतदेवाह - 'लोकायत' मित्यादिना - कर्म पर्यायाः ॥ १६ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy