SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ SARAN | 'वासनेत्यादि, वासनाऽपि 'अन्यसम्बन्धम्' अर्थान्तरभूतवस्तुसम्बन्धं विना नैवोपपद्यते, निदर्शनमाह-पुष्पादिगन्धवैकल्ये तिलादौ 'नेक्ष्यते' न दृश्यते यत इति ॥ १०२॥ बोधमात्रातिरिक्तं तद्, वासकं किञ्चिदिष्यताम्।मुख्यं तदेव वः कर्म, न युक्ता वासनाऽन्यथा ॥१०॥ बोधमात्रस्य तद्भावे, नास्ति ज्ञानमवासितम् । ततोऽमुक्तिः सदैव स्याद्, वैशिष्टयं केवलस्य न ॥१०॥ है एवं शक्त्यादिपक्षोऽयं, घटते नोपपत्तितः । बन्धान्यूनातिरिक्तत्वे, तद्भावानुपपत्तितः ॥ १०५॥ | 'बोधेत्यादि, यस्मादेवं बोधमात्रातिरिक्तं 'य(तोत्' तस्माद्वा (सक) किञ्चिदिष्यतां 'मुख्यं वस्तु सद्, अवस्तुना वासनाऽयोगात्, 'तदेव' वासकं (वः) कर्म, इत्थं चैतदङ्गीकर्त्तव्यं, न युक्ता वासनाऽन्यथा, अतिप्रसङ्गादिति ॥ १०३ ॥ एतदेवाह-'बोधे'त्यादिना, बोधमात्रस्य तद्भावे, वासनास(व)त्त्वे सति, किमित्याह-नास्ति ज्ञानमवासितं, सर्वत्र तद्भावात् , यतश्चैवं ततः अमुक्तिः सदैव स्याद्, वासनायोगेन, अथ विशिष्टबोधमात्रं वासनेत्यत्राह-वैशिष्ट्यं 'केवलस्य' बोधमात्रस्य 'न' नैव, तन्मात्रत्वात् , तदमात्रस्याविशिष्टेष्वपि भावादिति ॥ १०४॥ उपसंहरन्नाह-'एव'मित्यादि, 'एवम्' उक्तेन प्रकारेण शक्त्यादिपक्षो 'यद' यस्माद् घटते न 'उपपत्तितः' युक्तितः, बन्धान्यूनातिरिक्तत्वे सति तन्मात्रत्वेन, 'तद्भावानुपपत्तितः' बन्धनाभावेन बध्यबन्धनीयभावानुपपत्ति(त)ः॥ १०५॥ तस्मात्तदात्मनो भिन्नं, सच्चित्रं चात्मयोगि च । अदृष्टमवगन्तव्यं, तस्य शक्त्यादिसाधकम् ॥ १०६ ॥ BORHOLOCAUSASHISHASAS सदैव स्याद्, वासशिष्वपि भावादिति यक्तितः, बन्धाच्यूना।
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy