________________
ACTRICAGRA
स्वभावत्वाद् 'अयं' फलभेदः इत्यप्यनुत्तरं, कुत इत्याह-न भूतात्मक एवात्मा येनैतदेवं भवतीति, एतद् 'अत्र' प्रकरणे
निदर्शितं प्राक् ॥ ९४ ॥ न चैवमपि दोष इत्याह-'कर्मण' इत्यादिना, 'कर्मणः' ज्ञानावरणादेः 'भौतिकत्वेन' पौद्गलिहकत्वेन 'यद्वैतदपि' भूतानां तत्सभावत्वात्फलाप्त्यादि ‘साम्प्रतं' शोभनमेव । एतदेव स्पष्टयति-आत्मनो व्यतिरिक्तं |
'तत्' कर्म 'चित्रभावं' नानास्वभावं यतः 'मतम्' इष्टमिति ॥ ९५॥ वार्त्तान्तरकथनायाहहै शक्तिरूपं तदन्ये तु, सूरयः संप्रचक्षते । अन्ये तु वासनारूपं, विचित्रफलदं मतम् ॥ ९६ ॥
अन्ये त्वभिदधत्यत्र, स्वरूपनियतस्य वै । कर्तुर्विनाऽन्यसम्बन्धं, शक्तिसकस्मिकी कुतः ? ॥ ९७ ॥ PI 'शक्ती'त्यादि, शक्तिरूपं तत्-कर्म अन्ये तु 'सूरयः' पण्डिताः सम्प्रचक्षते, अन्ये तु वासनारूपं तदेव विचित्रफलदं
तथा सम्प्रचक्षत इति ॥ ९६ ॥ वार्त्तान्तरमाह-'अन्ये त्वि'त्यादिना, अन्ये त्वभिदधति अत्रैव-कर्माभ्युपगमे 'खरूप-18 है नियतस्य वै' आत्मरूपनियतस्यैव 'कर्तुः' आत्मनो विनाऽन्यसम्बन्धम्' अर्थान्तरभूतकर्मसम्बन्धमन्तरेण शक्तिरा-1
कस्मिकी कुतः?, तत्तत्त्वाविशेषादिति ॥ ९७ ॥ पराभिप्रायमाशय परिहरति-'तक्रियेत्यादिना, तक्रियायोगतः सा चेत् , तदपुष्टौ न युज्यते । तदन्ययोगाभावे च, पुष्टिरस्य कथं भवेत् ? ॥९८॥
'तक्रियायोगतः' कर्तृक्रियासम्बन्धेन सा चेत्-शक्तिः, अत्राह-तदपुष्टी' आत्मनोऽपुष्टौ सत्तानुपचये सति न युज्यते, तत्तथा(त्त्वा)विशेषात् , अथ मा भूद्दोष इति पुष्टिरिष्यत इत्यत आह-तदन्ययोगाभावे च' क्रियया कर्माणु
MISAARISSAISOPRASARALASIA