SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तवकः ॥ १४ ॥ तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः ॥ ९३ ॥ भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम् । न भूतात्मक एवात्मेत्येतदत्र निदर्शितम् ॥ ९४ ॥ कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । आत्मनो व्यतिरिक्तं तत्, चित्रभावं यतो मतम् ॥ ९५ ॥ 'यदी' त्यादि, यदि नित्यं क्लिष्टं मनः तदाऽऽत्मैव तत्त्वतः, सञ्ज्ञाभेदोऽत्र केवलं मन आत्मेति च, अथानित्यमिष्यते तत| चैतन्मनो न यथोक्तात्मलक्षणं, लक्षणभेदादिति ॥ ८९ ॥ एतदेवाह - यः कर्त्ता 'कर्मभेदानां' ज्ञानावरणादीनां भोक्ता कर्मफलस्य च नाभोगादेः, अन्वयीति भावः, एतदेवाह - 'संसती' संसरणशीलः, परिनिर्वाणशीलः, स एवात्मा, न | अन्यलक्षणः - इत्येकान्तनित्यादिलक्षणः ॥ ९० ॥ अदृष्टप्रतिपादनायाह - आत्मत्वेनाविशिष्टस्य - एकरूपस्य सतः वैचित्र्यं तस्य 'यद्वशात्' यत्सामर्थ्येन, किम्भूतमित्याह - 'नरादिरूपं ' नरनारकादिलक्षणं तच्चित्रं, स्वभाववैचित्र्याद्, अदृष्टं | कर्म्मसञ्ज्ञितमिति ॥ ९१ ॥ एतदेवोपपत्तितो दर्शयति – ' तथे' त्यादिना, तथा तुल्येऽपि चारम्भे वा (णिज्या) दौ सदुपायेऽपि चित्रज्ञानादिना यो नृणां 'फलभेदः' सम्पदवात्यादिरूपः स 'युक्तों' घटमानो न युक्तया हेत्वन्तरं विना, तयोरभिन्न| स्वभावत्वादिति ॥ ९२ ॥ यस्मादेवं- 'तस्मादिति, तस्मादवश्यमेष्टव्यम् 'अत्र' फलभेदे हेत्वन्तरं 'परैः' चार्वाकैः, 'तदेव' हेत्वन्तरमदृष्टमित्याहुः 'अन्ये' वादिनः किंभूताः ? इत्यत्राह - ' शास्त्रकृतश्रमाः' अधीतागमा इत्यर्थः ॥ ९३ ॥ पराभिप्रायमाशङ्क्य परिहरति- 'भूताना' मित्यादिना, 'भूतानां' राजादिपरिणतानां 'तत्स्वभावत्वात्' तथा फलदानादि बौद्धखण्डनम् कर्मसिद्धिः ॥ १४ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy