________________
|गात, सदैवाग्रहणं स्पष्टम् , आत्मन एव एवं विज्ञेयं 'कम्मेदोषतः तथाप्रतिबन्धकज्ञानावरणापराधेनेति ॥८६॥ उप|संहरन्नाहहै अतः प्रत्यक्षसंसिद्धः, सर्वप्राणभृतामयम् । स्वयंज्योतिः सदैवात्मा, तथा वेदेऽपि पठ्यते ॥ ८७॥ 15 __'अत' इत्यादि, अतः प्रत्यक्षसंसिद्धः, अहंप्रत्ययग्राह्यत्वेन, सर्वप्राणभृतामयमात्मा, स्वयंज्योतिः सदैवात्मा, तथा वेदे|ऽपि पठ्यते-"आत्मज्योतिरेवायं पुरुषः” इति वचनात् ॥ ८७ ॥ वार्त्तान्तरमाहअत्रापि वर्णयन्त्येके, सौगताः कृतबुद्धयः । क्लिष्टं मनोऽस्ति यन्नित्यं, तद्यथोक्तात्मलक्षणम् ॥ ८८॥
'अनापी'त्यादि. 'अत्रापि' आत्मविचारे वर्णयन्त्येके 'सौगता' बौद्धाः 'कृतबुद्धयः परिताः (परिष्कृतमतयः), किमित्याह-क्लिष्टं मनोऽस्ति यन्नित्यमालयादिरूपं तद्यथोक्तात्मलक्षणं, तत एवेत्थं व्यवहारः सिद्धः॥८८॥ अन्यस्त्वाहयदि नित्यं तदाऽऽत्मैव, सज्ञाभेदोऽत्र केवलम् । अथानित्यं ततश्चेदं, न यथोक्तात्मलक्षणम् ॥ ८९॥ यः कर्त्ता कर्मभेदानां, भोक्ता कर्मफलस्य च । संसद् परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥१०॥ आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसज्ञितम् ॥ ९१॥ तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । फलभेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ॥९२॥