________________
4
अहंप्रत्ययादात्मसिद्धिः
शास्त्र गुर्वी मे तनुरित्यादौ, भेदप्रत्ययदर्शनात् । भ्रान्तताभिमतस्यैव, सा युक्ता नेतरस्य तु ॥ ८३॥ हारि०
'गुर्वी त्यादि, गुवीं मे तनुरित्यादौ, आदिशब्दागौरी चेति परिग्रहः, अत्र भेदप्रत्ययदर्शनाच्छरीरे, यतश्चैवमतः १चार्वाक- भ्रान्तताऽभिमतस्यैव-अहं गुरुरित्याद्यहंप्रत्ययस्य 'सा' भ्रान्तता युक्ता, नेतरस्य तु-तद्भेदप्रत्ययनिबन्धनस्य केवलाहंप्रस्तबकः त्ययस्य ॥ ८३॥ न चास्य स्वसंविदितश्च (स्य) विरुध्यत इत्येतदाह
आत्मनाऽऽत्मग्रहोऽप्यत्र, तथानुभवसिद्धितः। तस्यैव तत्स्वभावत्वात्, न तु युक्त्या न युज्यते ॥८॥
'आत्मने'त्यादि, आत्मनाऽऽत्मग्रहोऽप्यत्र कर्तृकर्मभावेन 'तथाऽनुभवसिद्धितः' अहंप्रत्ययवेदनादित्यर्थः, 'तस्यैव' आत्मनः 'तत्वभावत्वात् स्वग्रहणस्वभावत्वात् , न तु युक्त्या न युज्यते, किन्तु युज्यत एव, स्वभाववैचित्र्यादिति ६॥ ८४ ॥ पराभिप्रायमाशङ्कय परिहरति
न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते । दानादिबुद्धिकालेऽपि, तथाऽहङ्कारवेदनात् ॥ ८५॥ । 'न चेत्यादि, नच बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते, नीलादिबुद्धिवत् , कुतः? इत्याह-दानादिबुद्धिकालेऽपि तथा|ऽहङ्कारवेदनात् , तथेति अहं ददामि करोमीति, अतः सामर्थ्यवेदनादिति ॥ ८५॥ अनिष्टान्तराप्तिं परिहरन्नाह
आत्मनाऽऽत्मग्रहे तस्य, तत्स्वभावत्वयोगतः । सदैवाग्रहणं ह्येवं, विज्ञेयं कर्मदोषतः ॥ ८६॥ 'आत्मने'त्यादि, आत्मनाऽऽत्मग्रहे सत्यपि तस्य' आत्मनः 'तत्वभावत्वयोगतः' आत्मना ग्रहणस्वभावत्वयो
HAMALAMALAURUS
॥१३॥