SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ _ 'सत' इत्यादि, सतोऽस्य-आत्मनः किं घटस्येव प्रत्यक्षेण न दर्शनम् ?, अत्रोच्यते-अस्ति च दर्शनं 'स्पष्टं स्फुटम् | द्र 'अहंप्रत्ययवेदनात्' अनुभूतेः ॥ ७९ ॥ पराभिप्रायमाह भ्रान्तोऽहं गुरुरित्येषः, सत्यमन्यस्त्वसौ मतः । व्यभिचारित्वतो नास्य, गमकत्वमथोच्यते ॥ ८॥ प्रत्यक्षस्यापि तत्त्याज्यं, तत्सद्भावाविशेषतः। प्रत्यक्षाभासमन्यच्चेत् , व्यभिचारि न साधु तत् ॥ ८१॥ | 'भ्रान्त' इत्यादि, भ्रान्तोऽहं गुरुरित्येषोऽहंप्रत्ययः, आत्मनो गुरुत्वायोगाद्, अत्राह-सत्यम्-एवमेतत्, किन्त्वन्यस्त्वसौ मतः, आत्मविषयोऽहंप्रत्ययः केवल एव, अनिष्टमाशय परिहरति-व्यभिचारित्वतो न 'अस्य' अहंप्रत्ययस्य गमकत्वमथोच्यते, मेयत्वादेरिव ॥ ८०॥ अत्रोत्तरम्-'प्रत्यक्षेत्यादि, प्रत्यक्षस्यापि तद्' गमकत्वं त्याज्यं, कुत इत्याह'तत्सद्भावाविशेषतः' व्यभिचारित्वसद्भावाविशेषात् , द्विचन्द्रादिप्रत्यक्षस्यापि भ्रान्तत्वात् , प्रत्यक्षाभासमन्यच्चेत्, प्रत्यक्षादर्थान्तरभूतं, 'व्यभिचारि, न साधु तत्' न प्रत्यक्षं तदित्यर्थः॥ ८१॥ अत्रोत्तरमाहहूँ अहंप्रत्ययपक्षेऽपि, ननु सर्वमिदं समम् । अतस्तद्वदसौ मुख्यः, सम्यक् प्रत्यक्षमिष्यताम् ॥ ८२॥ 'अहमित्यादि, अहंप्रत्ययपक्षेऽपि मयोपन्यस्ते ननु सर्वमिदं 'समतुल्यं, न साधुरसावन्यः-तदाभासोऽहंप्रत्ययः, यतश्चैवमतस्तत्प्रत्ययवद् 'असौं' अहंप्रत्ययो मुख्यः, किं? सम्यक् प्रत्यक्षमिष्यताम् , आत्मपरिच्छेदक इति भावः ॥२॥ स एवमन्यो नेतरः इत्येतदाह शा. स. ३ x
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy