________________
शास्त्र०
भावाभाव| निश्चलता
हारि०
१ चार्वाकस्तबकः
॥१२॥
GLOSASUSASTROSKARASA
नाभावो भावमाप्नोति, शशशृङ्गे तथागतेः । भावो नाभावमेतीह, दीपश्चेन्न स सर्वथा ॥ ७७ ॥ एवं चैतन्यवानात्मा, सिद्धः सततभावतः । परलोक्यपि विज्ञेयो, युक्तिमार्गानुसारिभिः ॥ ७८ ॥ 1. न'तथाभाविनं' कार्यरूपतया भवनशीलं हेतुम् 'अन्तरेण विना उपजायते 'किश्चित् किञ्चन, अप्रत्य(ती)त्यैवासतः सद्भावविरोधात् , तथा नश्यति चैकान्तात् , सतोऽसत्ताऽनापत्तेः, यथाऽऽह व्यासमहर्षिरित्यनेनायमेव शिष्टाभ्युपगम इत्याह ॥७५॥ 'नासत' इत्यादि, नासतः-खरविषाणादेविद्यते भावो, नाभावो विद्यते 'सतः' पृथिव्यादेः, उभयोरपि दृष्टोऽन्तः-परिच्छेदः 'अनयो सदसतोस्तत्त्वदर्शिभिरिति॥७६॥ तथा परेणाप्येतदेवोक्तमित्याह-नाभाई' इत्यादि, 'नाभावः' तुच्छो भावतां याति, कुतः? इत्याह-शशशृङ्गे तथागतेः, न हि तदसत् कदाचित्सत्त्वमापद्यते, तथा 'भाव' खल्वतुच्छः नाभावमेतीह सर्वथा,प्रकृत्यन्यथात्वायोगात् , दीपश्चेद्भा(दभा)वमेति, अत्राह-न सर्वथाऽभावः, भास्वरपुद्गलानां तमस्त्वपरिणतेरिति ॥ ७७॥ उपसंहरन्नाह-'एव'मित्यादि, 'एवम्' उक्तेन प्रकारेण चैतन्यवानात्माभूतव्यतिरिक्तः सिद्धः, स च 'सततभावतः उक्तवत्सततभवनेन परलोक्यपि विज्ञेयः, अन्वयोपपत्तेः, कैरित्याह-'युक्तिमार्गानुसारिभिः', नान्यतो भिन्नजातीयमेव असद्वा सद् भवति अतिप्रसङ्गादिति तत्त्वदर्शिभिः॥ ७८ ॥ अत्राह
सतोऽस्य किं घटस्येव, प्रत्यक्षेण न दर्शनम् ? । अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात् ॥ ७९ ॥
|॥१२॥