SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ नेत्यादिना परिहरति-न 'तस्यामेव' चैतन्योत्पत्तौ सन्देहात्, प्राणादिकार्यत्वेनात्मधर्मादित्वमङ्गीकृत्य चैतन्यस्य तवायसन्देहः 'केन' मानेन नेति चेत्, अत्राह-तस्य चैतन्यस्य 'तत्वरूपभावेन' आत्मरूपभावेन-आत्मस्वरूपत्वेन, 'तद-| भावः' चैतन्यस्य प्राणादिसारूप्याभावः कथं नु चेत् ॥ ७१॥ अत्राह-तद्वैलक्षण्ये त्यादि, भूतवैलक्षण्येन संवेदनात् चैतन्यस्य, पराभिप्रायमाह-मातृचैतन्यजे ह्ययं-हेतुसारूप्याभावलक्षणः, सुते 'तस्मिन् न' चैतन्येऽभ्युपगम्यमाने न दोषः स्यात् , तत्रोत्तरं-न नेति, किन्तु दोष एव, भावेऽस्य चैतन्यस्य, क? मातरि, मृद्घटवत्तज्जत्वासिद्धेः ॥७२॥ दोषान्तरमाह-न चे'त्यादि, न च 'संखेदजायेषु' यूकाद्येषु मात्रभावेन चैतन्यं भवेत् , पराभिप्रायमाशङ्कय परिहरति -प्रदीपोदाहरणमपि, भाव एव दीपाद्दीपान्तरमुत्पद्यते इत्येतदत्र-मातृचैतन्यजप्रक्रमे निमित्तत्वाद्दीपस्य तदपरदीपोत्पत्ती न बाधकं, न च दीप एव दीपान्तरस्योपादानमिति प्रतीतम् ॥७३॥ 'इत्थमित्यादि, 'इत्थम्' एवं उक्तन्यायात् 'न तदु पादानं' न मातृचैतन्योपादानं युज्यते 'तत्' सुतचैतन्यं कथश्चन, अथ मा भूदेष दोष इत्यन्यत्तदिष्यत इत्यत्राह-अन्योतपादानभावे चाधिकृतचैतन्यस्य, किमित्यत्राह-तदेव' उपादानम् आत्मा प्रसज्यते, असारूप्येण भूतेभ्योऽन्यत्वादिति |॥ ७४ ॥ न चानुपादानं किं (न) भवति? इत्याहन तथाभाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति चैकान्ताद् , यथाऽह व्यासमहर्षिः॥ ७५॥ नासतो विद्यते भावो, नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ ७६ ॥ छन्दःप्रतिलोमतान्न आईस्वात् न दोषायेति न्यायाचार्याः । तथैव ४८ तमेऽपि
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy