________________
शाख ०
हारि०
१ चार्वाक
स्तबकः ॥ ११ ॥
कार्यपक्षविचारः
इत्थं न तदुपादानं, युज्यते तत्कथञ्चन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥ ७४ ॥
नच लावण्यकार्कश्यश्यामत्वैर्देहधर्मादित्वे सति तद्भावाभावत्वेन व्यभिचारिता, कुतः ? इत्याह- मृतदेहेऽपि सद्भावात्, लावण्यादीनां सद्भावश्चाध्यक्षेणैव 'सङ्गतेः' परिच्छेदात् ॥ ६६ ॥ असिद्धमाशङ्क्य परिहरति — 'न चे'| दित्यादि, न चेल्लावण्य सद्भावो मृतदेहे तथाऽनुपलम्भेनेत्यत्राह - 'सः' लावण्यसद्भावः 'तन्मात्र हेतुकः' देहमात्रनिमित्तः यदि स्याद् भवेदेव, देहभावाविशेषात्, न चैवम्, एवं चैतन्येऽपि योजनीयम्, अत एव तद्भावात् कारणादन्यस द्भावः, यद्वैकल्याल्लावण्याभाववच्चैतन्याभाव इत्येवमन्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ ६७ ॥ तदन्यस्यैवात्मत्वाच्चैतन्यमेवाधिकृत्याह - 'ने'त्यादि, न प्राणादिः, आदिशब्दात्परिणामग्रहः, 'असौ' अन्य इति, यद्वैकल्याच्चैतन्याभाव इत्यत्र मानं किं ?, न किञ्चिदित्यर्थः, उत्तर आह— 'तद्भावेऽपि तुल्यता', प्राणादिरेवासावित्यत्रापि मानं किमिति भावः, 'तदभावात्' प्राणाद्यभावादभावश्चेतनाया यदि मानम्, अत्राह - आत्माभावे न स चैतन्याभाव इत्यत्र 'का प्रमा' किं प्रमाणं ? ॥ ६८ ॥ स्यादेतत्- 'तेने 'त्यादि, 'तेन' प्राणादिना सह तद्भावभावित्वं चैतन्यस्य प्रमाणमित्यत्राह-न भूयो नलिकादिना, आदिशब्दाद् बस्त्यादिग्रहः, संपादितेऽपि वायौ प्राणादिरूपे 'अतत्सिद्धेः' इति चैतन्यासिद्धेः, 'सः' नलिकादिवायुरन्य एवेति चेत्, न प्रमाणादि ( प्राणादि ० ) रिति, अत्राह - न तदित्यादि ॥ ६९ ॥ 'वायु' इत्यादि, वायुसामान्यसंसिद्धेरिति, 'तत्स्वभावः' चैतन्यजननस्वभावः 'सः' नलिकादिवायुनैति चेत्, अत्र हि-अत्रापि न प्रमाणं युष्मा ॥ ११ ॥ कम्, अप्रत्यक्षत्वादिति, चैतन्योत्पत्तिरेव चेत्प्रमाणं, प्राणादिभावे तदुत्पत्तेः प्राणादेरेव तत्स्वभावत्वावगमात् ॥ ७० ॥