SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मृतदेहे व चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन, तन्न धर्मादि नान्यथा ॥ ६५ ॥ 'मृते' त्यादि, मृतदेहे च 'चैतन्यं' चेष्टादिहेतुरूपमुपलभ्येत 'सर्वथा' सर्वप्रकारैः कुतः ? इत्याह- 'देहधर्मादिभावेन' देहधर्मत्वेन देहकार्यत्वेन च, इदं (त्थं चैतदङ्गीकर्त्तव्यं तच्चैतन्यं (न) 'तद्धर्मादि' देहधर्मो देहकार्य वा, नान्यथा, तद्भावेऽप्यभावादिति भावः ॥ ६५ ॥ इहैव व्यभिचारमाशक्य परिहरन्नाह न च लावण्यकार्कश्यश्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव सङ्गतेः ॥ ६६ ॥ न चेल्लावण्यसद्भावो, न स तन्मात्रहेतुकः । अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ ६७ ॥ न प्राणादिरसौ, मानं किं ?, तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रमा ? ॥६८॥ | तेन तद्भावभावित्वं न भूयो नलिकादिना । संपादितेऽप्यतत्सिद्धेः सोऽन्य एवेति चेद् न तत् ॥ ६९ ॥ | वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् । अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ॥ ७० ॥ न तस्यामेव सन्देहात्तवायं केन नेति चेत् । तत् तत्स्वरूपभावेन तदभावः कथं नु चेत् ? ॥ ७१ ॥ तद्वैलक्षण्यसंवित्तेः, मातृचैतन्यजे ह्ययम् । सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि ॥ ७२ ॥ न च संखेदजाद्येषु, मात्रभावेन तद्भवेत् । प्रदीपज्ञातमप्यत्र, निमित्तत्वात् न बाधकम् ॥ ७३ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy