SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ १० ॥ | अदृष्टाकाशकालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः ॥ ६३ ॥ न चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते । किन्त्वयं युज्यते केति त्वन्नीतौ चोक्तवन्न सः ॥६४॥ 'एकः' भूतसङ्घातो देहादिरूपः 'तथा' देहादिरूपत्वेन, 'अपरः' घटादिरूपो नेति, 'तन्मात्रत्वे' भूतसङ्घातमात्रत्वे तुल्ये सति 'तथाविध:' देहादिरूपो नेति, 'यतः' यस्मान्निमित्तं नो भिन्नं 'तत' भूतमात्रात् अपि तु तदेव तदिति, तुल्यं च 'तद्' भूतमात्रत्वं 'तयो:' भूतसङ्घातयोर्देहघटादिरूपयोरिति वैचित्र्याभावः ॥ ६१ ॥ 'स्यादेत 'दित्यादि, तथैवं मन्यसे - भूतजत्वेऽपि सति 'ग्रावादीनाम्' उपलादीनां विचित्रता वर्णादिभेदेन लोकसिद्धेति, तथाप्रतीतेः, एतदाशङ्कयाह - सिद्धैव, न लोकप्रतीतिरपहूयते, किन्तु न 'सा' प्रावादीनां विचित्रता तन्मात्रप्रभवा ननु ॥ ६२ ॥ कथमित्याह - 'अदृष्टे' त्यादि, अदृष्टाकाशकालनियत्यादीनां या सामग्री ततः 'समुद्भवात् उत्पत्तेर्ग्रावादिविचित्रतायाः, कुत इत्याह - ' तथैव लोकसंवित्तेः' इत्थमेव सकललोकसिद्धत्वात्, 'अन्यथा' यद्येवं नेष्यते ततः 'तदभावतः' इति ग्रावादिविचित्रताऽभावाद्, भूतमात्रजत्वेन निमित्ताविशेषात् ॥ ६३ ॥ किं वाऽनेन निदर्शनेन ? इत्याह- 'न चेहे' त्यादि, न चेहप्रक्रमे 'लौकिको मार्गः' ग्रावादिविचित्रतारूपः स्थितोऽस्माभिर्विचार्यते, किमयमित्थं स्थितः ? इति किन्त्वयं युज्यते क्वेत्येतद्विचार्यते, 'वनीतौ च' भूतमात्रनिमित्तरूपायाम् उक्तवन्न सः मार्गः, निमित्ताविशेषादिति ॥ ६४ ॥ पराभ्युपगमे दोषान्तरमाह- अदृष्टादिसामग्री ॥ १० ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy