________________
SAISISSARIAUSIOS
'हविर्गुडकणिक्कादिद्रव्यसङ्घातजान्यपि हविः-घृतम्, आदिशब्दाचातुर्जातकादिपरिग्रहः, यथा भिन्नस्वभावानि 'खाद्यकानि' अशोकवर्तिमरिचमञ्जर्यादीनि तथेति ॥५६॥ एवं चेद्भूतकार्याणि देहघटादीनि चेतनत्वाचेतनत्वेन भिन्नस्वभावानीति, आह–व्यक्ती त्यादि, व्यक्तिमात्रत एवैषां-खाद्यकानां ननु भिन्नस्वभावता, रसवीर्यविपाकादिकार्यभेदो न विद्यते, तद्वत्तत्रापि स्वभावभेदो मा भूदित्यभिप्रायः॥ ५७ ॥ पराभिप्रायमाह तदात्मकत्वमात्रत्वे' हविर्गुडकणिकादिद्रव्यसङ्घातात्मकमात्रत्वे सति संस्थानादिविलक्षणा, आदिशब्दात्परिमाणादिपरिग्रहः, यथेयमस्ति भिन्नस्वभावता खाद्यकानां 'भूताना'मिति भूतकार्याणां देहघटादीनां 'साऽपि भिन्नस्वभावता चेतनत्वाचेतनत्वरूपा कथं न?, चेत्, | स्यादेवेत्यर्थः॥५८॥ अत्रोत्तरमाह-'कर्ने'त्यादि, कर्बभावात् , नहि खाद्यकानामिव तदतिरिक्तो भूतदेहघटादीनां कर्ता|ऽस्ति, तथा 'देशकालभेदाद्ययोगतः' देशभेदायोगात्, कालभेदायोगात् , अदृष्टभेदायोगादिति, न चासिद्धमदः-देश-12 | भेदाद्ययोगादि, कुतः? इत्याह-भूतमात्रत्वे विश्वस्य 'तदसम्भवात्' देशाद्यसम्भवादिति (काद्यसंभवात् न्याय०) ॥५९॥
एतदेव स्पष्टयन्नाह-तथा चेत्यादि, तथा च भूतमात्रत्वे विश्वस्य न 'तत्सङ्घातभेदयोः' भूतसङ्घातविशेषयोर्देहघटादि| रूपयोः भेदकाभावतः कारणाद् 'भेदः' चेतनेतरादिरूपो युक्तः, सम्यग् विचिन्त्यतामेतदिति ॥६०॥ तत्रापि विशेषमाहएकस्तथाऽपरो नेति, तन्मात्रत्वे तथाविधः । यतस्तदपि नो भिन्नं, ततस्तुल्यं च तत्तयोः ॥ ६१॥ स्यादेतद् भूतजत्वेऽपि, पावादीनां विचित्रता । लोकसिद्धति सिद्धैव, न सा तन्मात्रजा ननु ॥ १२ ॥