SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कार्यपक्षेः स्वभाव शास्त्र 'स्वभावः तदा सत्तारूपः भूतमात्रत्वे सति तदतिरिक्तभेदकाभावेन न्यायान्न भिद्यते, कथमित्याह-विशेषणं विना हारि० यस्माल्लोके न तुल्यानां समशुक्लपटादीनां विशिष्टता, तथाऽप्रतीतेः॥ ५४॥ स्वरूपमात्रभेदपक्षमाश्रित्याह१चार्वाक है। स्वरूपमात्रभेदे च, भेदो भूतेतरात्मकः । अन्यभेदकभावे तु, स एवात्मा प्रसज्यते ॥ ५५ ॥ स्तबका स्वरूपमात्रभेदेऽपि च-स्वरूपमात्रेण च भूतानां भेदेऽभ्युपगम्यमाने सति भेदो भूतेतरात्मको भवति, भेदमात्रस्य चैतन्यजननस्वभावेष्वपि भावात् , तदन्येषां च स्वरूपेणैव तेभ्यो भेदात् , स्वरूपस्य चोभयत्र भूतमात्रस्वभावत्वादिति । 'अन्यभेदकभावे तु' अन्यस्य भेदकस्यास्तित्वे पुनरभ्युपगम्यमाने, समानशुक्लपटेषु रागादेरिव, किमित्याह-स एवान्यो भेदक आत्मा प्रसज्यते, तदतिरिक्तस्वभावत्वादिति ॥५५॥ पराभिप्रायमाहहविगुंडकणिकादिद्रव्यसङ्घातजान्यपि । यथा भिन्नखभावानि, खाद्यकानि तथेति चेत् ॥ ५६ ॥ व्यक्तिमात्रत एवैषां, ननु भिन्नखभावता । रसवीर्यविपाकादिकार्यभेदो न विद्यते ॥ ५७ ॥ तदात्मकत्वमात्रत्वे, संस्थानादिविलक्षणा । यथेयमस्ति भूतानां, तथा साऽपि कथं न चेत् ॥ ५८॥ कञभावात्तथा देशकालभेदाद्ययोगतः। न चासिद्धमदो भूतमात्रत्वे तदसम्भवात ॥ ५९॥ तथा च भूतमात्रत्वे, न तत्सङ्घातभेदयोः । भेदकाभावतो भेदो, युक्तः सम्यग् विचिन्त्यताम् ॥६॥ ORO ROSSISHASHIRISHORROR* ॥९ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy