________________
धादिति चेत्, न तेषां तथास्वभावत्वेन सर्वथा नेत्यसिद्धेः, तथास्वभावत्वे प्रत्येकत्ववत्तदैव सद्भावप्रसङ्ग इति चेत्, न, तथास्वभावत्वेन विचित्रस्वभावाक्षयादिति, मूर्तणुसङ्घात एव स्थूलत्वमिति ॥ ५० ॥
न चैवं भूतसङ्घातमात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र, तद्वत्तद्भावसङ्गतेः ॥ ५१ ॥
न चैवम् - अणुस्थूलत्ववद् भूतसङ्घातमात्रं चैतन्यमिष्यते परैः कुत इत्याह- अविशेषेण 'सर्वत्र' भूतसङ्घाते 'तद्वत्' तत्सङ्घातवदेव तद्भावसङ्गतेः — चैतन्यभावप्रसङ्गात् ॥ ५१ ॥ ततः किमित्यत आहएवं सति घटादीनां व्यक्तचैतन्यभावतः । पुरुषान्न विशेषः स्यात्, स च प्रत्यक्षबाधितः ॥ ५२ ॥
एवं सति घटादीनां भूतसङ्घातत्वेन व्यक्तचैतन्यभावतः कारणात् पुरुषाद्यविशेषः स्यात्, ततः किमित्याह - स च प्रत्यक्षत्राधितः तेषामचेतनत्वेन प्रतीतेः ॥ ५२ ॥ पराभिप्रायमाह -
अथ भिन्नस्वभावानि भूतान्येव यतस्ततः । तत्सङ्घातेषु चैतन्यं, न सर्वेष्वेतदप्यसत् ॥ ५३ ॥
अथ भिन्नस्वभावानि प्रकृत्यैव भूतान्येव यतस्ततः कारणात्तत्सङ्घातेषु केषाञ्चिदेव ( चेतना, केषाञ्चिदेव ) तज्जननस्वभावत्वादित्येतदाशङ्कयाह - एतदप्यसत्-अशोभनमित्यर्थः ॥ ५३ ॥ कथमित्याहस्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते । विशेषणं विना यस्मान्न तुल्यानां विशिष्टता ॥ ५४ ॥