________________
USLARARASI
असत्स्थूलत्वमण्वादो, घटादौ दृश्यते यथा । तथाऽसत्येव भूतेषु, चेतनाऽपीति चेन्मतिः ॥ ४५ ॥ | | नासत्स्थूलत्वमण्वादो, तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो, न युक्तोऽतिप्रसङ्गतः ॥ ४६॥ पञ्चमस्यापि भूतस्य, तेभ्योऽसत्त्वाविशेषतः। भवेदुत्पत्तिरेवं च, तत्त्वसङ्ख्या न युज्यते ॥ १७॥
असत्स्थूलत्वमण्वादौ, आदिशब्दाद् व्यणुकादिपरिग्रहः, 'घटादौ' तत्समुदये दृश्यते यथा तथा असत्येव भूतेषु प्रत्येक तत्समुदाये चेतनाऽपीति चेन्मतिः॥४५॥ अत्राह-'नासदि'त्यादि, नासत् स्थूलत्वमण्वादी, किन्तु सदेव, कुत इत्याह -तेभ्य एव समुद्भवात् स्थूलत्वस्य, केयमुपपत्तिः? इत्याह-'असतः' स्थूलत्वस्य 'तत्समुत्पादः' तेभ्योऽण्वादिभ्यः। सम्भवो न युक्तः, कस्मादित्याह-अतिप्रसङ्गतः इति ॥४६॥ एतदेवाह-'पञ्चमे त्यादि, पञ्चमस्यापि 'भूतस्य' आकाशादेः 'तेभ्यः' अण्वादिभ्यः 'असत्त्वाविशेषतः' चैतन्यवदसत्त्वाविशेषात् भवेदुत्पत्तिरिति, एवं चाभ्युपगम्यमाने तत्त्वसङ्ख्या न
युज्यते "चत्वार्येव तत्त्वानी"ति ॥४७॥ पराभिप्रायमाहहान तज्जननस्वभावाश्चेत्तेऽत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः ॥४८॥ ___ 'न तजननस्वभावाश्चेत्ते' न पश्चमभूतजननस्वभावाश्चेदण्वादय इत्याशझ्याह-अत्र मानं न विद्यते, यदुत न इत्थम्भूतानि, स्थूलत्वोत्पाद इष्टश्चेत् अतजननस्वभावेभ्यस्तदुत्पादविरोधे न मानम् , एतदाशङ्कयाह-'तत्सद्भावेऽपि' कथञ्चि
1 तजननस्वभावा नेत्यत्रेति मु. २ ०श्चेत्यत्रेति पु.
AAAAAASLASIHATA