________________
शास्त्र
आवृत्त्यभाव:
हारि०
१चार्वाक
अनभिव्यक्तिरप्यस्याः, न्यायतो नोपपद्यते । आवृत्तिर्न यदन्येन, तत्त्वसङ्ख्याविरोधतः ॥ ३५॥ । | अनभिव्यक्तिरप्यस्याः-चेतनायाः 'न्यायतो' नीत्या नोपपद्यते, कथमित्याह-आवृत्तिर्न यदन्येन, अन्यस्यैवाभावात् , अभावश्च तत्त्वसङ्ख्याविरोधतः, पृथिव्यप्तेजोवायुरिति वचनेन तदतिरिक्तावरणाभावादिति ॥ ३५॥ . . . न चासौ तत्वरूपेण, तेषामन्यतरेण वा । व्यञ्जकत्वप्रतिज्ञानात् , नावृत्तिय॑ञ्जकं यतः॥३६॥ । न चासौ-आवृत्तिः 'तत्स्वरूपेण' भूतस्वरूपेण 'तेषां' भूतानामन्यतरेण वा केनचित् , कुत इत्याह-व्यञ्जकत्वप्रतिज्ञानाद् भूतानां, ततः किमित्याह-'नावृत्तिः' नावारकमेव व्यञ्जकं यतो भवति ॥ ३६॥
विशिष्टपरिणामाभावेऽपि पत्रावृतिर्न वै । भावताऽऽप्तेस्तथा नाम, व्यञ्जकत्वप्रसङ्गतः॥३७॥ 'विशिष्टपरिणामाभावेऽपि' प्राणापानवाक्कायाकारपरिणामाभावेऽपि हि 'अत्र' भूतचेतनायामावृतिः 'न वै' नैव, कुत इत्याह-'भावताप्तेः, तस्या भावश्च(त्वस्य) आप्तिश्च, तुच्छस्याव्यप(स्तद)योगात्, तथा नाम 'व्यञ्जकत्वप्रसङ्गतः', परिणामस्येव व्यञ्जकत्वप्रसङ्गात् ॥ ३७॥ दोषान्तरमाह|न चासौ भूतभिन्नो यत् , ततो व्यक्तिः सदा भवेत्।भेदे त्वधिकभावेन, तत्त्वसङ्ख्या न युज्यते ॥३॥ | न चासौ-परिणामो भूतभिन्नो 'यत्' यस्मात् 'ततः' तस्माद् व्यक्तिः सदा भवेत् चैतन्यस्य, भेदे तु परिणामस्याभ्यु-10 पगम्यमानेऽधिकभावेन तत्त्वान्तरापत्त्या तत्त्वसङ्ख्या न युज्यते "चत्वार्येव तत्त्वानि" इति ॥ ३८॥
॥
६
॥