________________
RASAUGOSLARARASUOSE
त एवमाहुःयदीयं भूतधर्मः स्यात् , प्रत्येकं तेषु सर्वदा । उपलभ्येत सत्त्वादिकठिनत्वादयो यथा ॥ ३२॥ | यदीयं-चेतना भूतधर्मः ‘स्यात्' भवेत् ततः प्रत्येकं 'तेषु' भूतेषु सर्वदा' सर्वकालमुपलभ्येत, किंवदित्याह-सत्त्वा-1 दिकठिनत्वादयो यथा, सत्त्वादयः सामान्यधोंः कठिनत्वादयो विशेषधर्माः, न चासौ धर्मो भवन् प्रकारद्वयमतिरिच्य भवति ॥ ३२॥ पराभिप्रायमाहशक्तिरूपेण सा तेषु, सदाऽतो नोपलभ्यते । न च तेनापि रूपेण, सत्यसत्येव चेन्न तत् ॥ ३३ ॥
शक्तिरूपेणादृश्येन 'सा' चेतना तेषु सदा 'अतः' अस्मात्कारणान्नोपलभ्यते, न च तेनापि रूपेण तथाभूतेन 'सती' 3 विद्यमाना 'असत्येव' अविद्यमानैव, चेदिति पराभिप्रायसंसूचकः, यद्येवं मन्यस इति, अत आह-न तत्-नैतदेवमित्यर्थः
॥ ३३ ॥ कथमित्याहशक्तिचेतनयोरैक्यं, नानात्वं वाऽथ सर्वदा(था)। ऐक्ये सा चेतनैवेति, नानात्वेऽन्यस्य सा यतः ॥३॥
शक्तिचैतन्ययोः 'ऐक्यम्' अभेदः 'नानात्वं वा' भेदो वाऽथ सर्वथा, किं चातः इत्याह-ऐक्ये सा शक्तिश्चेतनैवेति उपलब्धिप्रसङ्गः, नानात्वेऽन्यस्य सौ-चेतना प्राप्नोति यतः, न भूतानां, तदन्यशक्तिरूपत्वात्तेषामित्यतो न तदिति योगः M॥३४॥ सैवानभिव्यक्ता शक्तिरित्येतन्निरासार्थमाह
।