________________
शास्त्र०
हारि० १ चार्वाक -
स्तबकः
॥५॥
चार्वाकाधिकारः १ ( स्तबक: १)
इदानीं तु समासेन, शास्त्रसम्यक्त्वमुच्यते । कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः ॥ २९ ॥ 'इदानी' मित्यादि, इदानीं तु 'समासेन' सङ्क्षेपेण 'शास्त्रसम्यक्त्वमुच्यते' आगमस्या विपरीतार्थाभिधायकत्वमुच्यते, कथमित्याह - 'कुवादियुक्त्यपव्याख्यानिरासेन' कुवादिप्रणीतयुक्तिनिरासेन अपव्याख्यानिरासेनाविरोधतः - सर्वशास्त्राविरोधेन ॥ २९ ॥ एतदेव शास्त्रवादोपन्यासेनाह—
पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् । न चात्मादृष्टसद्भावं मन्यन्ते भूतवादिनः ॥ ३० ॥
“पृथिव्यादी”त्यादि ‘पृथिव्यादिमहाभूतमात्रकार्य - पृथिव्यप्तेजोवायुमात्र कार्यमिदं - प्रत्यक्षत उपलभ्यमानं 'जगत्' चराचरं, न चात्मादृष्टसद्भावं मन्यन्ते, “चैतन्यविशिष्टकायः पुरुषः” इति वचनाद्, अदृष्टप्रतिपादकप्रमाणाभावाच्च, क एवं मन्यन्ते ? इत्याह- 'भूतवादिनः' लोकायताः ॥ ३० ॥ तथा
अचेतनानि भूतानि, न तद्धर्मो न तत्फलम् । चेतनाऽस्ति च यस्येयं, स एवात्मेति चापरे ॥ ३१ ॥
अचेतनानि भूतानि अध्यक्षतस्तथोपलब्धेः, अतो 'न तद्धर्मो' न भूतस्वभावो, 'न तत्फलं' न भूतकार्य, चेतनाऽस्ति चेयम् अनुभवसिद्धत्वात्, यस्येयं धर्म्मः फलं वा स एवात्मेति चापरे - आत्मवादिनो मन्यन्त इति च ॥ ३१ ॥
चेतना - सिद्धिः
॥५॥