SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ SASSASASASSOSIALISASI किं नैवम्-अबन्धफलः? चेदत्राह-न यत्तथा-आशंसावर्जित इति ॥२२॥ एतदेव धर्मद्वैविध्यं तन्त्रान्तराभ्युपगमतोऽपि दर्शयति-'भोगे'त्यादि, भोगमुक्तिफलो धर्मः-पुण्यलक्षणो भोगफलः शुद्धतपोरूपो मुक्तिफलः शैवानां, स एव प्रवृत्तीतरात्मकः, प्रवृत्तिनिवृत्तिरूपस्त्रैविद्यवृद्धानाम् , सम्यग्मिथ्यादिरूपश्च शाक्यविशेषाणाम् , आदिशब्दाद्धेयोपादेयाभ्युदयनिःश्रेयसपरिग्रहः, एवमर्थभेदादेव गीतस्तन्त्रान्तरेष्वप्ययं द्विभेद इति ॥ २३ ॥ उपचयोपपत्तिमाह-'तमित्यादि, 'तमन्तरेण तु' ज्ञानक्रियायोगलक्षणं धर्म विनैव, 'तयो' संसारफलयोर्धर्माधर्मयोः क्षयः केन प्रसाध्यते ?, नान्यो हेतुरस्तीत्यभिप्रायः, अहेतुत्वे दोषमाह-सदा स्यान्न कदाचिद्वा स्यात् यद्यहेतुक एव सः-तयोः क्षय इति ॥ २४॥ उपसंहरन्नाह-तस्मादित्यादि, यत एवं तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः-धर्माधर्मयोः क्षये, स एव धर्मो विज्ञेय उक्कलक्षणः शुद्धो मुक्तिफलप्रद इति ॥२५॥ चोद्यशेष परिहरति-'धर्मे'त्यादि, धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं मुनिभिस्तत्र पुण्यलक्षणं 'हेयधर्मम्' आशंसावन्तं तदाश्रित्योक्तं न तु 'सञ्ज्ञानयोगकम्' उपादेयधर्म, सज्ञानयोग एव संज्ञानयोगकः, सज्ञायां कन् । यतश्चैवम्-'अत' इत्यादि, अतस्तत्रैव-उक्तलक्षणे धर्मे युक्तास्था यदि 'सम्यम्' अविपरीतं निरूप्यते, किमिति? अत आह-संसारे सर्वमेवान्यत् प्रियसंयोगादि दर्शितं दुःखकारणमिति ॥ २७॥'तस्माचे'त्यादि, तस्माच्च धर्मान्जायते मुक्तिः 'यथा' येन प्रकारेण 'मृत्यादिवर्जिता' मृत्युरोगादिरहिता तथोपरिष्टाद्वक्ष्यामः, 'तथैव ज्ञानयोगस्येत्यादिना, 'सम्यकशास्त्रानुसारतः सदागमानुसारेणेत्यर्थः ॥ २८॥ MAGHIRLARICHIURAISAIPIGAISAIO
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy