________________
शास्त्र हारि०
पुण्यसंज्ञाने धर्मभेदौ
॥४॥
SAROSAROCUREMOCROSOM
|भोगमुक्तिफलो धर्मः, सप्रवृत्तीतरात्मकः । सम्यग्मिथ्यादिरूपश्च, गीतस्तत्रान्तरेष्वपि ॥ २३ ॥ |तमन्तरेण तु तयोः, क्षयः केन प्रसाध्यते? । सदा स्यान्न कदाचिद्वा, यद्यहेतुक एव सः॥ २४ ॥
तस्मादवश्यमेष्टव्यः, कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः, शुद्धो मुक्तिफलप्रदः ॥ २५ ॥ धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं पुण्यलक्षणम् । हेयं धर्म तदाश्रित्य, न तु संज्ञानयोगकम् ॥ २६ ॥ अतस्तत्रैव युक्तास्था, यदि सम्यग निरूप्यते । संसारे सर्वमेवान्यदर्शितं दुःखकारणम् ॥ २७॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता । तथोपरिष्टावक्ष्यामः, सम्यक् शास्त्रानुसारतः ॥ २८॥
उच्यत एवमेवैतद् यदुक्तं भवता, किन्तु धर्मो द्विधा 'मतः' इष्टः शास्त्रकारैः, सज्ञानक्रियारूप एवैकः, आत्मस्वभावः, 'तथाऽन्यः' पुण्यलक्षणः, पुण्येन-सातादिना लक्ष्यत इति पुण्यलक्षणः-पुण्यहेतुराशंसावान् , हेय इत्यर्थः ॥२०॥ |'ज्ञाने त्यादि, 'ज्ञानयोगः' ज्ञानक्रियारूपस्तपः 'शुद्धम्' अविध्यासेवनमलरहितम् 'आशंसादोषवर्जितं देवादिफलाभिसन्धिरहितं, प्रधानमलत्वादस्य भेदेनाभिधानम् , अभ्यासातिशयादुक्तं सर्वज्ञैस्तदेव मुक्तः प्रसाधकमिति, तच्चोपरिष्टाद्वक्ष्यामः ॥२१॥ 'धर्म' इत्यादि, धर्मस्तदपि चेत्तपः, एतदाशयाह-सत्यं धर्म एवेत्यर्थः। प्रच्छक आह-किन्न बन्धफलः सः-तपोलक्षणो धर्मः, गुरुराह-'यद्' यस्माद् आशंसावर्जितः, अन्योऽपि-पुण्यलक्षणः भोगफलशुद्धतपोरूपः
ॐRESSES
॥४
॥