________________
*335*
आह तत्रापि नो युक्ता, यदि सम्यग् निरूप्यते । धर्मस्यापि शुभो यस्माइन्ध एव फल मतम् ॥१७॥ न चायसस्य बन्धस्य, तथा हेममयस्य च । फले कश्चिद्विशेषोऽस्ति, पारतंत्र्याविशेषतः ॥ १८ ॥ तस्मादधर्मवत्त्याज्यो, धर्मोऽप्येवं मुमुक्षुभिः । धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः ॥ १९ ॥
आह परः - ' तत्रापि' धर्मे नो युक्ता आस्था यदि 'सम्यक्' सूक्ष्मनीत्या 'निरूप्यते' पर्यालोच्यते, किमित्यत आहे - 'धर्मस्यापि' उक्तलक्षणस्य 'शुभः' सत्ता (साता) दिहेतुर्यस्माद्बन्ध एव फलं मतं, लोक इति ॥१७॥ न च शुभबन्धहेतुत्वेनात्रास्था, अन्योऽप्याह - 'न चे' त्यादि, न चायसस्य बन्धस्य - लोहनिगडादेः तथा हेममयस्य च - कनक शृङ्खलादेः फले कश्चिद्विशेषोऽस्ति, कस्मात् ? इत्याह-पारतन्त्र्याविशेषतः, उभयोरपि ॥ १८ ॥ उपसंहरन्नाह - 'तस्मादि' त्यादि, यस्मा - | देवं तस्मादधर्मवत्त्याज्यो धर्मोऽप्येवं 'मुमुक्षुभिः' मोक्तुमिच्छुभिः, उपपत्त्यन्तरमाह-धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः, तेषु तेषु शास्त्रेष्विति ॥ १९ ॥ अत्र परिहारमाह
उच्यते एवमेवैतत्, किन्तु धर्मो द्विधा मतः । संज्ञानयोग एवैकस्तथाऽन्यः पुण्यलक्षणः ॥ २० ॥ ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं, तद्विमुक्तेः प्रसाधकम् ॥ २१ ॥ धर्मस्तदपि चेत् सत्यं, किं न बन्धफलः स ? यत् । आशंसावर्जितोऽन्योऽपि, किं नैवं? चेत् न यत्तथा ॥२२॥