________________
HALISISSA TAPAUKSES
भूतात् 'जन्तोः' प्राणिनः 'द्वेषाग्निः' मत्सरानलः 'उपशाम्यात' निर्वाति ॥८॥ हिंसानृताज्ञानादिदोषमाता 'निःशेषगुण-18 घातिनी' उपशमादिगुणनाशिनी 'आत्मीयग्रहमोक्षेण बाह्यसङ्गत्यागेन 'तृष्णाऽपि' लौल्यपरिणतिरपि निवर्त्तते ॥९॥ एवं गुणगणोपेतो, विशुद्धात्मा स्थिराशयः। तत्त्वविद्भिः समाख्यातः, सम्यग् धर्मस्य साधकः॥१०॥ | 'एवम्' उक्तेन प्रकारेण गुणगणोपेतः सन् 'विशुद्धात्मा' अत्यन्तापायहेतुमलरहितः 'स्थिराशयः' स्थिरचित्तः 'तत्त्वविद्भिः' सर्वज्ञैः 'समाख्यातः' कथितः 'सम्यग' आगमोक्तेन विधिना धर्मस्य साधकः, नियमभावित्वेन, धर्महेतुसाधनेऽपि धर्मसाधकः, कारणे कार्योपचारादिति ॥१०॥ उपादेयहेत्वाराधनादि न्याय्यमित्याह- .. |उपादेयश्च संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, यतोऽन्यद् दुःखकारणम् ॥ ११॥18 अनित्यः प्रियसंयोग, इहेाशोकवत्सलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥ १२॥ र अनित्याः सम्पदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥ १३ ॥ पुनर्जन्म पुनर्मृत्युहीनादिस्थानसंश्रयः । पुनः पुनश्च यदतः, सुखमत्र न विद्यते ॥ १४ ॥ प्रकृत्यसुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता, क्वचिदास्था विवेकिनाम् ?॥१५॥5 मुक्त्वा धर्म जगद्वन्द्यमकलकं सनातनम् । परार्थसाधकं धीरैः, सेवितं शीलशालिभिः ॥ १६ ॥ 'उपादेयश्च' ग्राह्यश्च 'संसारे भवनिधौ धर्म एव प्रधानपुरुषार्थरूपः 'बुधैः' पण्डितैः, सदा दुःखदभोगादिकाल