SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उपादेयतद्भावावगमो जायते, किंविशिष्टः ? इत्याह- ' द्वेषशमन : ' मत्सरनाशनः, स एव विशेष्यते - 'स्वर्गसिद्धिसुखावहः' ज्ञानोपशमाभ्यां शुद्धप्रवृत्त्यादेर्वा मुक्तिसुखप्रापकमित्यर्थः ॥ २ ॥ सर्वशास्त्रसमुच्चयमाह - दुःखं पापात्सुखं धर्मात् सर्वशास्त्रेषु संस्थितिः । न कर्त्तव्यमतः पापं कर्त्तव्यो धर्मसञ्चयः ॥ ३ ॥ 'दुःख' पालक्षणं तत् 'पापात्' अधर्माद्भवति, 'सुखम्' आह्रादलक्षणं तद् 'धर्मात् प्रवृत्तिनिवृत्तिरूपाद्भवति, इयं सर्वशास्त्रेषु 'संस्थितिः' सम्यग्व्यवस्था, यत एवं न कर्त्तव्यमतः पापं किं तर्हि ?, कर्त्तव्यो 'धर्म्मसञ्चयः', यथाशक्त्या प्रभूतो धर्म इत्यर्थः ॥ ३ ॥ पापधर्महेतु परिहारासेवनाभ्यां तदकरणादीति तद्धेतूनाह हिंसाऽनृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वारः, इति पापस्य हेतवः ॥ ४ ॥ विपरीतास्तु धर्मस्य, एत एवोदिता बुधैः । एतेषु सततं यत्नः, सम्यक्कार्यः सुखैषिणा ॥ ५ ॥ 'हिंसाऽनृतादयः पञ्च' हिंसाऽनृतस्तेयाब्रह्मपरिग्रहाः, आदिशब्दादवरोधेऽप्यनृतग्रहणं प्राधान्यख्यापनार्थं, 'तत्त्वा श्रद्धानमेव च मिथ्याभिनिवेश इति भावः, 'क्रोधादयश्च चत्वारः' क्रोधमानमायालोभाः 'इति' एवं त एवंप्रकारा वा पापस्य हेतवः, अशुभकर्म्मबन्धजनका इत्यर्थः ॥ ४ ॥ 'विपरीतास्तु' अहिंसासत्यास्तेयब्रह्मापरिग्रहतत्त्वश्रद्धानक्षान्त्यादयः धर्मस्यैत एव 'उदिताः' उक्ताः 'बुधैः' पण्डितैः हेतव इति, न्यायेन एवम् अत एव 'एतेषु' धर्महेतुषु 'सततम्' अनारतमेव 'यत्नः' प्रयासः 'सम्यम्' विधिना कार्यः, केनेत्याह - 'सुखैषिणा' कल्याणकामेनेत्यर्थः ॥ ५ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy