________________
शास्त्र.
मंगलादि
हारि०
।
॥१॥
नहेतुत्वाच्छ्योभूतमतोमा भूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न प्रवर्तन्त इति प्रयोजनादिप्रतिपादनार्थ चेति, तत्र 'प्रणम्य परमात्माम मित्पनेनेष्टदेवतास्तवमाह, अस्य च भावमङ्गलत्वादत एक विघ्नविनायकोपशान्तिः, 'वक्ष्यामि हितकाम्यया। सत्त्वानामल्पबुद्धीनां, शास्त्रवार्तासमुच्चयम् । इत्यनेन तु प्रयोजनादीति श्लोकसमुदायार्थः, अवयवार्थस्तु-प्रणम्य-सम्यग् मनोवाकायैर्नत्वा, कमित्याह-'परमात्मानं परमश्चासावात्मा च परमात्मा तं, सकलकर्मरहितं देवाधिदेवमित्यर्थः, तं प्रणम्य, किमित्याह-वक्ष्यामि' अभिधास्ये 'शास्त्रवार्तासमुचयं शास्त्रोद्देशानां सङ्ग्रहमिति योगः, कथमित्याह-हितकाम्यया' हितबुद्ध्या 'सत्त्वानां' प्राणिनाम् 'अल्पबुद्धीनां तत्त्वबुद्धीनां विशिष्टबुद्धीनां वा, प्रेक्षावतस्तेषु हितकाम्यया प्रवृत्तेः, तेषां माध्यस्थ्यप्रमोदविषयत्वात् , “मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"(तत्त्वा० अ०७ सू०६)ति वचनात्, ततश्च बालबुद्धिहितकाम्यया (काम्या) कर्तुरनन्तरप्रयोजनं, परम्परप्रयोजनं तु कर्मक्षयान्मुक्तिः, अभिधेयं शास्त्रवार्ता, क्रियाऽऽनन्तर्यलक्षणः सम्बन्धः, व्यासक्रियातः समासक्रियायाः क्रियानन्तरत्वात् , श्रोतॄणां तु तदर्थपरिज्ञानाद्येव प्रयोजनादीति |कृतं विस्तरेण ॥ १॥ किंविशिष्टं शास्त्रवार्तासमुच्चयमित्याह
यं श्रुत्वा सर्वशास्त्रेषु, प्रायस्तत्त्वविनिश्चयः । जायते द्वेषशमनः, वर्गसिद्धिसुखावहः ॥ २॥ 'य' शास्त्रवार्तासमुच्चयं श्रुत्वा' समाकर्ण्य 'सर्वशास्त्रेषु' न्यायशास्त्रादिषु 'प्रायो' बाहुल्येन 'तत्वविनिश्चयः
कर्मक्षयान्मति
किविशिष्टं शामलातक्रियायाः
l
॥
१
॥