________________
शा. स. १७
||माह - 'अमूर्त्ते' त्यादिना - 'अमूर्त्ताः' रूपादिविकलाः सर्वभावज्ञाः ज्ञस्वभावत्वेन निरावरणाः ' त्रैलोक्योपरिवर्त्तिनः | प्रकृष्टगुणतया लोकान्तस्था:, क्षीणसङ्गाः, आकालं तन्निवृत्तेः, 'महात्मानः' अचिन्त्यशक्तियुक्तास्ते सदा सुखमासते, एकरूपतयैव ॥ ६९७ ॥ फलोपदर्शनद्वारेणोपसंहरन्नाह - 'एता' इत्यादि, एता वार्त्ता अनेकशास्त्रगता 'उपश्रुत्य' उप|| सामीप्येन सम्यक् सम्प्रदाय रूपेण श्रुत्वा 'भावयन्' पर्यालोचयन् 'बुद्धिमान्नरः' प्राज्ञ इत्यर्थः किमित्याह - 'इह' प्रकरणे | उपन्यस्तशास्त्रनिर्दिष्टानां लोकायतादिप्रणीतानां 'भावार्थ' सोपयोगेतरादिरूपम् 'अधिगच्छति' जानाति ॥ ६९८ ॥ |प्रकरणसङ्ख्याऽभिधित्सयाऽऽह
| शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतः । आचार्य हरिभद्रेण, शास्त्रवार्त्तासमुच्चयः ॥ ६९९ ॥ | कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ७०० यं बुद्धं बोधयन्तः शिखिजलमरुतस्तुष्टुवुर्लोकवृत्यै,
ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्यत्व हेतुः । सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां
तस्मिन् देवाधिदेवे भगवति भवताऽऽधीयतां भक्तिरागः ॥ ७०१ ॥