________________
शास्त्र हारि० जैनमताधिकारे
GUISSORIUS SUSHISAISAS*
अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः । क्षीणसङ्गा महात्मानस्ते सदा सुखमासते ॥ ६९७ ॥ ..
स्वरूपं एता वार्ता उपश्रुत्य, भावयन् बुद्धिमान्नरः । इहोपन्यस्तशास्त्राणां, भावार्थमधिगच्छति ॥ ६९८ ॥ | 'मृत्यादीत्यादि, 'मृत्यादिवर्जिता' मृत्युजराजन्मवर्जिता च 'इह' लोके प्रवचने वा मुक्तिः, कुतः इत्याह-कर्मपरिक्षयात्' सर्वथा कर्मविगमात् , यदि चैवं ततः किमित्याह-नाकर्मणः सत्त्वस्य कचित् 'जन्म' संमूछनोत्पत्त्यादिरूपं, कथमित्याह-यथोक्तं 'पूर्वसूरिभिः' उमाखातिप्रमुखैः ॥ ६९२ ॥ किमुक्तमित्याह-'दग्धे'इत्यादि, दग्धे बीजे यथाsत्यन्तं शालिबीजादौ प्रादुर्भवति-न 'अङ्कुरः' शाल्यङ्करादिः, कर्मबीजे तथा दग्धे ज्ञानावरणादौ न रोहति 'भवा-15 कुरः' नारकादिरूपः ॥ ६९३ ॥ 'जन्मेत्यादि, जन्माभावे सामान्येनैव जरामृत्योः प्रतीतयोरभावः, कुतः ?-हेत्व- भावतः' निमित्ताभावात् , 'तदभावे च' (जन्म) जरामृत्यभावे च, किमित्याह-निःशेषदुःखाभावः रोगशोकादिदुःखा|भावः 'सदैव हि' आकालमिति भावः ॥ ६९४ ॥ अयमेव च सुखरूप इत्येतदाह-'परमे'त्यादि, 'परमानन्दभावः' प्रकृष्टस्वास्थ्यलक्षणः 'तदभावे हि' निःशेषदुःखाभावे 'शाश्वतः' अप्रतिपाती 'व्यायाधाभावसंसिद्धः सर्वथाव्याबा-14 |धानिवृत्त्युपजातः सिद्धानां सुखमिष्यते, परमसुखस्वरूपज्ञैः ॥६९५॥ सिद्धानामेव स्वरूपमाह-सर्वद्वन्द्वे'त्यादिना-सर्वद्वन्द्वविनिर्मुक्ताः, द्वन्द्वानि-शीतोष्णादीनि, सर्वाबाधाविवर्जिताः, आबाधाः-क्षुत्तृडादिरूपाः, सर्वसंसिद्धसत्कार्याः,5॥९६॥ सत्कार्यम्-आनन्दोपयोगि सुखं, तेषां किमुच्यते ?, यत एवमविद्यमानक्षुण्णा इति ॥ ६९६ ॥ भूयोऽप्यमीषामेव स्वरूप