SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रधानपुरुषार्थमङ्गीकृत्यो भयोपयोगमाह 'मुक्तिश्चेत्यादिना - मुक्तिश्च प्रधानपुरुषार्थरूपा केवलज्ञानक्रियातिशयजैव हि उभयनिबन्धनैव, नानुभयनिबन्धनेत्यर्थः कुतः ? इत्याह- 'तद्भाव एव' केवलज्ञानशैलेशी क्रियाभाव एव 'तद्भावात्' मुक्तिभावात्, तदभावे चाप्यभावतः, तदभावेऽभावादित्यर्थः ॥ ६८९ ॥ तंत्रान्तरीया अप्येवं व्यवस्थिता इत्याह- 'न विविक्त' मित्यादिना - न 'विविक्तं' पृथक् पृथक् द्वयं सम्यगेतत् ज्ञानक्रियारूपम् अन्यैरपीष्यते विचक्षणैः, कस्मात् ? इत्याह-स्वकार्यसाधनाभावात्, नहि ज्ञानमात्रं क्रियामात्रं वा फलदमिति, यथाऽऽह व्यासमहर्षिः, एतत्संवाद्येव वस्तु ॥ ६९० ॥ ' बठरश्चेत्यादिना - 'बठरश्च' मूर्खश्च तपखी, तथा 'शूरश्चापि' प्रथमप्रहरणादिक्लैब्य ही नश्चाप्यकृतव्रणः, तथा मद्यपा स्त्री चित्तभ्रमहेतुमद्यभोगवती स्त्री सतीत्वं च राजन्न श्रद्दधाम्यहम् एतत्परस्परविरुद्धं वस्त्विति ॥ ६९१ ॥ मृत्यादिवर्जिता मुक्तिरित्युक्तं प्राक् तदुपदर्शयन्नाह - I | मृत्यादिवर्जिता चेह, मुक्तिः कर्मपरिक्षयात् । नाकर्मणः क्वचिज्जन्म, यथोक्तं पूर्वसूरिभिः ॥ ६९२ ॥ | दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ ६९३ ॥ जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाभावः सदैव हि ॥ ६९४ ॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धः, सिद्धानां सुखमिष्यते ॥ ६९५ ॥ सर्वद्वन्द्वविनिर्मुक्ताः, सर्वाबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः, सुखं तेषां किमुच्यते ? ॥ ६९६ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy