________________
4854
ज्ञानक्रियाविचार:
शास्त्र हारिक जैनमताधिकारे
यत्किश्चित् , 'तयोरपि च ज्ञानक्रिययोः 'तद्भावः' ज्ञानक्रियाभावः परमार्थेन, न अन्यथा-तद्योगमन्तरेण ॥ ६८२॥ एतदेवाह-साध्ये त्यादि, साध्यमर्थ परिज्ञाय यथावत् यदि सम्यक् प्रवर्तते उपायात् ततस्तत्साधयत्येव साध्यं, तथा चाह बृहस्पतिः एतत्संवादि ॥ ६८३ ॥ सम्यगित्यादिना-सम्यक्प्रवृत्तिः साध्यस्य ज्ञानोपायशुद्धा प्राप्त्युपायोडभिधीयते निश्चयनयेन, ततश्च तदप्राप्तौ सत्याम् 'उपायत्वं हेतुत्वं न 'तस्याः' सम्यक्प्रवृत्तेरुपपद्यते, अतो नासौ सम्यक्प्रवृत्तिरेव ॥ ६८४ ॥ एतद्गर्भमाह-'असाध्ये'त्यादिना-असाध्यारम्भिणः पुंसस्तेन कारणेन सम्यगज्ञानं तत्त्वनीत्या न जातुचित्, प्रवृत्त्यनङ्गत्वात् , साध्यानारम्भिणश्च, व्यर्थकालक्षपणातः, इत्येवं 'द्वयं ज्ञानक्रियारूपम् 'अन्यो|ऽन्यसङ्गतम्' इतरेतरानुविद्धं, परमार्थेन ॥ ६८५॥ अत्रैव परमागमं घटयन्नाह-'अत एवेत्यादि, अत एव कारणादागमज्ञस्य प्राणिनो या क्रिया ज्ञानपूर्विका सा क्रियोच्यते, नान्या, तथा आगमज्ञोऽपि स उच्यते यः तस्यां' क्रियायां 'यथाशक्ति' शत्त्यनुरूपं प्रवर्तते, नोपेक्षां करोति ॥६८६॥ एतदेव दृष्टान्तेन भावयति-चिन्तामणी'त्यादि, चिन्तामणिः-दारियनाशनो रत्नविशेषः तत्स्वरूपज्ञः पुमान् परमार्थेन 'दौर्गत्योपहतः' उद्वेगकारिदारिद्याभिभूतः सन् 'नहिं नैव तत्प्राप्युपायवैचित्र्ये चिन्तामणिप्राप्युपायनानात्वे सति स्वाधीनतयाऽन्यत्र तदुपायं मुक्त्वा प्रवर्तते, न हि, किन्तु तत्रैव ॥ ६८७ ॥'न चासावित्यादि, न च 'असौ प्राणी तत्स्वरूपज्ञः 'या' दौर्गत्योपहतः सन् 'अन्यत्रापि' अन्यत्र उपाये प्रवर्त्तते, दौर्गत्यनाशनाय, प्रतिवस्तूपमया समर्थयति-'मालतीगन्धगुणवित्' जातीकुसुमगन्धज्ञः 'दर्भ न रमते ह्यलिः' तृणविशेषे न रमत एव भ्रमरः-तिर्यक्सत्त्वोऽपि, किमुतान्यः १, एवं न भवतीत्यभिप्रायः॥ ६८८॥
वर, परमार्थेन । नारम्भिणश्च, व्यापारम्भिणः पुंसस्त
वैवासावित्यादितिवस्तूपमया सत्योऽपि, ति
॥९५ ॥