SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ चिरं कालं किम्भूताः ! इत्याह- 'क्लेशायासपरायणा:' फलशून्यविबाधनाः, अतिदुःखवन्त इत्यर्थः ॥ ६७५ ॥ प्रकृतोपचयमाह - 'ज्ञाने' त्यादिना - ज्ञानवन्तश्च प्राणिनः 'तद्वीर्यात्' ज्ञानसामर्थ्येन तत्र तत्र 'स्वकर्मणि' रत्नवाणिज्यादौ विशिष्टफलयोगेन हेतुभूतेन सुखिनो, दृश्यन्त इति वर्त्तते, अल्पक्रिया अपि सन्त इति ॥ ६७६ ॥ प्रधानमपि पुरुषार्थमधिकृत्य ज्ञानमेवोपयोगीत्याह - 'केवले 'त्यादि, केवलज्ञानभावे च सति मुक्तिः, अन्यथा न 'यत्' यस्मात् क्रियावतोऽपि यत्नेन महता, तस्माज्ज्ञानादसौ मता मुक्तिः ॥ ६७७ ॥ क्रियावादिमतमुपन्यस्यन्नाह - 'क्रियेत्यादि, क्रियैव फलदा पुंसां सर्वत्र, न ज्ञानं फलदं मतं, कुतः ? इत्याह-यतः स्त्रीभक्ष्यभोगज्ञः कश्चिदपि न ज्ञानात्सुखितो भवेत्, नहि सुख | हेतुवस्तुज्ञानिनस्तत्प्राप्तावपि सर्वथा निष्क्रियस्य फलमित्यर्थः ॥ ६७८ ॥ क्रियाऽभावे न किञ्चिदित्यभिधित्सुराह - 'क्रिये-' त्यादि, क्रियाहीनाश्च 'यत्' यस्मात् लोके दृश्यन्त एव ज्ञानिनोऽप्यालस्योपहताः 'कृपायतनम्' करुणाभाजनमन्येषां प्राणिनां किम्भूताः ? इत्याह- 'सुखसम्पद्विवर्जिताः' आन्तरेण सुखेन बाह्यया च सम्पदा रहिता इति भावः ॥ ६७९ ॥ प्रकृतोपचयमभिधातुमाह-'क्रियेत्यादि, क्रियोपेताश्च प्राणिनः 'तद्योगात्' क्रियासामर्थ्येन उदग्रफलभावतः सुखसम्पद्भावात् मूर्खा अपि सन्तो भूयांसो दृश्यन्ते विपश्चित्स्वामिनः 'अनघाः' अपापा इत्यर्थः ॥ ६८० ॥ प्रधानमपि पुरुषार्थमधिकृत्य क्रियैव प्रधानेत्यभिदधत् आह- 'क्रिये' त्यादि, क्रियाऽतिशययोगे शैलेशीलक्षणे सति मुक्ति: 'केवलिनोऽपि हि सर्वज्ञस्यापि, आस्तां तावदन्यस्य, नान्यस्मिन् काले केवलित्वेऽपि सति, तद् 'असौ' मुक्तिः 'तन्नियन्धना' क्रियाकारणेत्यर्थः ॥ ६८१॥ उभयवादिमतमाह-'फल' मित्यादिना - फलं ज्ञानक्रियायोगे सति सर्वमेवोपपद्यते
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy