________________
शास्त्र हारि० जैनमताधिकारे
॥९४॥
असाध्यारम्भिणस्तेन, सम्यग् ज्ञानं न जातुचित्। साध्यानारम्भिणश्चेति, वयमन्योऽन्यसङ्गतम् ॥६८५॥| ज्ञानक्रिया
अत एवागमज्ञस्य, या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यस्तस्यां, यथाशक्ति प्रवर्त्तते ॥ ६८६ ॥15| विचारः |चिन्तामणिस्वरूपज्ञो, दौर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये, मुक्त्वाऽन्यत्र प्रवर्तते ॥ ६८७ ॥ न चासौ तत्वरूपज्ञो, योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविदर्भे न रमते ह्यलिः॥ ६८८॥ मुक्तिश्च केवलज्ञानक्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावेऽप्यभावतः ॥ ६८९॥ न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । खकार्यसाधनाभावाद् , यथाऽऽह व्यासमहर्षिः ॥ ६९०॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः। मद्यपा स्त्री सतीत्वं च, राजन्न श्रदधाम्यहम् ॥ ६९१ ॥
'ज्ञाने'त्यादि, ज्ञानादेव केवलात् 'नियोगेन' नियमेन 'सिद्धिं' मुक्तिमिच्छन्ति केचन ज्ञानवादिनः (अन्ये) क्रियात एवेति, 'द्वाभ्यां ज्ञानक्रियाभ्याम् "अन्ये' ज्ञानक्रियावादिनः विचक्षणा इति ॥ ६७३ ॥ ज्ञानवादिमतमाह-'ज्ञानं हींत्यादि, ज्ञानं हि फलदं पुंसां सर्वत्रैव, न क्रिया फलदा मता, कुतः' इत्याह-मिथ्याज्ञानात्प्रवृत्तस्य सर्वस्यैव फलप्राप्ते|रसम्भवात्, नहि मृगतृष्णिकाजलज्ञानप्रवृत्तस्यापि तदवाप्तिरिति भावः ॥ ६७४ ॥ ज्ञानाभावे क्लेश एव केवल इत्याह-15॥९४ ॥ 'ज्ञाने'त्यादिना-ज्ञानहीनाश्च यत्' यस्माल्लोके दृश्यन्ते एव 'महाक्रिया' काष्ठवाहकादयः ताम्यन्तः सन्तः अति