SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ SAHARASHTRA ज्ञानं हि फलदं पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसम्भवात् ॥६७४॥ है ज्ञानहीनाश्च यल्लोके, दृश्यन्ते हि महाक्रियाः । ताम्यन्तोऽतिचिरं कालं, क्लेशायासपरायणाः ॥६७५॥ | ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र खकर्मणि । विशिष्टफलयोगेन, सुखिनोऽल्पक्रिया अपि ॥ ६७६ ॥ केवलज्ञानभावे च, मुक्तिरप्यन्यथा न यत् । क्रियावतोऽपि यत्नेन, तस्माज्ज्ञानादसौ मता ॥ ६७७॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥६७८॥2 क्रियाहीनाश्च यल्लोके, दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां, सुखसम्पद्विवर्जिताः ॥ ६७९ ॥ | क्रियोपेताश्च तद्योगादुदग्रफलभावतः । मूर्खा अपि हि भूयांसो, विपश्चित्वामिनोऽनघाः ॥ ६८० ॥ ६ क्रियातिशययोगे च, मुक्तिः केवलिनोऽपि हि । नान्यदा केवलित्वेऽपि, तदसौ तन्निबन्धना ॥ ६८१ ॥ फलं ज्ञानक्रियायोगे. सर्वमेवोपपद्यते । तयोरपि च तद्भावः, परमार्थेन नान्यथा ॥ ६८२॥ * साध्यमर्थ परिज्ञाय, यदि सम्यक प्रवर्त्तते । ततस्तत्साधयत्येव, तथा चाह बृहस्पतिः॥ ६८३॥ सम्यक् प्रवृत्तिः साध्यस्य, प्राप्त्युपायोऽभिधीयते । तदप्राप्तावुपायत्वं, न तस्या उपपद्यते ॥ ६८४ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy