________________
शास्त्र हारि०
वाच्यवाचकसम्बन्ध
रस्तुच्छोऽन्तरेऽप्रमाणकः, न च तस्य वस्तुना सम्बन्ध इति, तत्प्राप्त्यर्थक एवेत्यनुघुष्य एव, विकल्पबुद्धिप्रतिभासोऽव-|
|| शिष्यते, तमप्यधिकृत्याह-'बुद्ध्या तस्यापि विकल्पबुद्ध्याऽऽकारस्यापि भवन्नीत्यैव, असत्त्वादिति वर्तते, कुतः? इत्याहजैनमता- 'बोधतः' इत्यद्वयाद्बोधाद्भेदेनेति योगः, नहि बोधमात्रवादिनो द्वयबोधव्यतिरिक्तं किंचिदस्तीति कुत इष्टप्रतिभासः? धिकारे | केशोरुकादिप्रतिभासस्तु लोके बोधमात्रसामग्रीभिन्नकर्मतिमिरापरकेशदर्शनादिजो युक्तः, न तु बोधमात्रसामग्रीतः,
तस्यापरमन्तरेण वैशिष्ट्यकरणायोगादिति वस्त्वेव वाच्यं, नापोह इति ॥ ६६९ ॥ इतश्चैतदेवमित्याह-क्षणिका' इत्यादि, क्षणिकाः 'सर्वसंस्कारा' कृतकाः, भावा इत्यर्थः, अन्यथा यदि वस्तु वाच्यत्वेन नेष्यते एतद्विरुध्यते, कथम् ? इत्याह-अपोहः 'यत्' यस्मात् न संस्कारः, अवस्तुत्त्वात् , न च 'क्षणिकः' नश्वर इष्यते, अवस्तुत्वादेवेति ॥६७०॥ किश्च'एवं चेत्यादि, 'एवं च' अवस्तुवाचकत्वे शब्दानां 'वस्तुनः' स्वलक्षणस्य 'तत्त्वम्' अनित्यत्वादिमत्त्वं हन्त 'शास्त्रात् |पिटकनयलक्षणात् 'अनिश्चितम्' अनवगतं वस्तुनीत्या, 'तदभावे च' तत्त्वनिश्चयाभावे च 'सुव्यक्तं' स्पष्टं तदेतत्'
शास्त्रप्रणयनं तदनुष्ठानं च तुषखण्डनं, फलकणानासादनादिति ॥ ६७१॥ दोषान्तरमभिधातुमाह-'बुद्धे'त्यादि, 'बुद्धा8 वर्णेऽपि च' बुद्धाश्लाघायामपि चादोषः प्रामोति, संस्तवेऽपि तत्स्तोत्रकरणरूपे 'अगुणः' गुणो न प्रामोति, तथा 'आह्वा
नाप्रतिपत्त्यादि' आह्वाने सत्यप्रवृत्त्यादि 'शब्दार्थायोगत' शब्दार्थसम्बन्धाभावे 'ध्रुवम्' अवश्यम् , आहूतार्थस्य |तच्छब्देनाभणनादिति ॥ ६७२॥ वार्त्तान्तरमाह|ज्ञानादेव नियोगेन, सिद्धिमिच्छन्ति केचन । अन्ये क्रियात एवेति, द्वाभ्यामन्ये विचक्षणाः ॥६७३॥
॥
९
॥