SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ यते श्रोत्रा पुलावाच्यो धर्म भेदात्, न च इन्द्रियग्राह्यं स्खलक्षणम्, अन्यच्छब्दस्य गोचरः सामान्यलक्षणं, कुतः इत्याह-शब्दात्प्रत्येति भिन्नाक्षः-अग्धोऽपि घटादि, न तु प्रत्यक्षमीक्षते चक्षुष्मानिव ॥ ६६६॥ एतदेव भावयति-'अन्येत्यादि, अन्यथा स्पष्टानुभवेन दाहसम्बन्धात् इन्द्रियार्थयोगेन दाहं स्वगतं दग्धोऽभिमन्यते, एवं पुमान्न जानाति, 'अन्यथा' स्वस्पष्टाननुभवतः दाहशब्देन श्रुतेन दाहार्थः संप्रतीयते श्रोत्रा पुरुषेणेत्येतत् न बाधकम् ॥ ६६७ ॥ यथा न बाधकं तथाऽऽह-'इन्द्रिये'त्यादि, 'इन्द्रियग्राह्यतः' इन्द्रियग्राह्याद्धर्मादन्योऽपि वाच्यो धर्मः, अपिशब्दादनन्योऽपि, अतोऽयुक्तमिदं-यत् शब्दात्प्रत्येति | भिन्नाक्षो, न तु प्रत्यक्षमीक्षत इति, तदभिधेयधर्मस्य कथञ्चित्ततो भेदात्, न च नेक्षत एव, कथञ्चित्तग्राह्यानुविद्धस्यैव शब्दात्प्रतीतेः, यथाक्षयोपशमं तथाऽनुभवादिति, तथाऽसौ वाच्यो धर्मो न च 'दाहकृत्' दाहकरणशीलः, चशब्दाद् दाहकृच्च, अतो युक्तमिदं यद् अन्यथा दाहसम्बन्धा दित्यायुक्तं, स्पर्शनेन्द्रियगम्यधर्मस्य कथश्चिदभिधेयतो धर्मतो |भेदात्, न च शब्दादपि न तत्प्रतीतिरेव, अस्पष्टाकारतया प्रतीतेः। तथा दाहवेदनं त्वसातावेदनीयकर्मोदयनिमित्तं, न दाहसम्बन्धमात्र, तदभावे क्वचिदभावात्, एतदधिकृत्याह-तथा प्रतीतितः' इत्युक्तवदितरेतरगर्भप्रतीतेः कारणाद्, इन्द्रियग्राह्यतोऽन्योऽपि तथाज्ञानाय, कुतः? इत्याह-भेदाभेदसिद्ध्यैव जात्यन्तरात्मिकया हेतुभूतया, 'तत्स्थितेः' अभिधेयेन्द्रियग्राह्यधर्मस्थितेरिति भावः ॥ ६६८॥ यदुक्तं 'वाच्य इत्थमपोह' इत्येतन्निराकरोति-'अपोहे त्यादिनाअपोहस्यापि परकल्पितस्य 'वाच्यत्वम्' अभिधेयत्वम् उपपत्त्या युक्त्या 'न युज्यते' न घटते, कुतः? इत्याह-'असस्वात्' अविद्यमानत्वात् , 'वस्तुभेदेन वस्तूनामन्यत्वेन, तथाहि-भिन्नानि च वस्तून्येव, तद्भेदः तद्वाच्यत्वे वा?, अप
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy