________________
शास्त्र हारि० जैनमताधिकारे
MARCH
॥ ९२ ॥
एवेति भावः ॥६६॥ न चैतयोर्विशेषो नावगम्यत इत्याह-'ज्ञायते' इत्यादिना-ज्ञायते प्रमातृभिः 'तद्विशेषस्तु सत्येत- वाच्यवारशब्दभेदस्तु प्रमाणेतरयोरिव प्रमाणतदाभासयोः प्रतिभाससाम्येऽपि सति'खरूपालोचनादिभ्यः' दाळसंवादनिरूप-18| चकभावः णादिभ्यः तथा दर्शनतो 'भुवि' पृथिव्याम्, अनेन प्रकारेण तद्भेदसिद्धेः सदसदर्थप्रतिभासविशेषः, परैरपि संवादेतरद्वारेण तदभ्युपगमात् , न चैकान्ततुल्ययोः संवादेतराविति भावनीयम् ॥६६२॥ एवं सति समयानर्थक्यमित्येतत् परिहरति-समयेत्यादिना-'समयापेक्षणं' सङ्केतापेक्षणं च 'इह' लोके क्वचित् तत्क्षयोपशमं उपलक्षणात् शब्दार्थसम्बन्ध-13 ज्ञानावरणक्षयोपशमं विना 'तत्कर्तृत्वेन' क्षयोपशमकर्तृत्वेन 'सफलं' सार्थकमेव, योगिनांतु' सर्वत्र तत्क्षयोपशमवतां न है विद्यते समयापेक्षणम् , असङ्केतितेऽपि स्वयं वाचकप्रयोगादिति ॥६६३॥ अन्यस्यान्यत्र समये विरोध इत्येतत्परिहरन्नाह|'सर्वे'त्यादि, 'सर्ववाचकभावत्वात् देशाद्यपेक्षया विलम्बितादिप्रतीतिजनकत्वेन सर्ववस्तुवाचकस्वभावत्वात् 'शब्दानां चित्रशक्तितो वाच्यस्य च तथेति तथा तथाऽनेकप्रतीतिनिबन्धनानेकशक्तित्वाच्च वाच्यवस्तुनः, किमित्याह-अन्यत्र नागोऽस्य समयेऽपि, अस्य शब्दस्य घटादेः अन्यत्र-पटादौ समयेऽपि-सङ्केतेऽपि नागः-नापराधः, अर्थप्रतीतिजनकत्वेनोभयोस्तत्स्वभावत्वादिति ॥ ६६४ ॥ अत्रैवानुक्तदोषपरिहारार्थमाह-'अनन्ते' त्यादिना-अनन्तधर्मकं 'वस्तु' घटादि 31 तथा तथाऽनेककार्यकरणात् , एकस्वभावादनेककार्याकारणात् , एकस्वभावादनेककार्यासिद्धेः, तच्चित्रत्वे चैकत्वविरोधात् , 'तद्धर्मः'वस्तुधर्मः कश्चिदेव हि (च) अभिधेयपरिणामरूपो 'वाच्यः' अभिधेयः, न सर्व एव, सर्वथेन्द्रियान्तरग्राह्योऽ- ॥९२॥ पीति, यस्मादेवं ततश्चैतत् न बाधकं वक्ष्यमाणं यदुच्यते परेण ॥ ६६५ ॥ किं तदित्याह-'अन्यदेवे'त्यादि, अन्यदेव