________________
अबाह्यालम्बनस्य बाह्यालम्बनत्वेन प्रतिपत्तेः, न हि पीतालम्बनस्य नीलालम्बनत्वेन प्रतिपत्तिः, अव्यवस्थापत्तेः, न चाविषयत्वस्य प्रमाणं, नायमेव बाह्यप्रतिपत्तिरूपेण प्रवृत्तेः, न चान्यद्, अनभ्युपगमात् , तैमिरिककेशादिज्ञानस्याप्यद्वयबो-IN धमात्रवादेऽयोगात्, भावतः सामग्रीभेदाभावात् तिमिरकल्पनिमित्तासिद्धेः, बोधमात्रभेदस्याप्रयोजकत्वात् , अपश्चितं च तदनेकान्तजयपताकायामिति नेहोच्यते, (संक्षेप) कामवत्त्वात्प्रारम्भस्यास्येति ॥६५७॥ उक्तदोषपरिहारार्थमाह-'अनभ्युपगमे'त्यादि, 'अनभ्युपगमात्' अनङ्गीकरणाच्च 'इह प्रक्रमे 'तादात्म्यादिसमुद्भवाः तादात्म्यतदुत्पत्तिप्रसूता न दोषाः'न' अस्माकं पूर्ववर्णिताः, न चान्येऽपि 'परमार्थंकतानत्वे' इत्यादिनोक्ताः, कुतः? इत्याह-तद्भेदात्' शब्दभेदात् 'हेतुभेदतः' कारणभेदेन ॥ ६५८ ॥ एतदेवाभिधातुमाह-'वन्ध्येतरे'त्यादि, 'वन्ध्येतरादिको भेद' वन्ध्याऽवन्ध्या |च मत्कुणोऽमत्कुणश्चेत्यादि, 'रामादीनां स्त्रीपुरुषप्रभृतीनां यथैव हि सकललोकप्रतीतः, मृषासत्यादिशब्दानाम्
आदिशब्दात्सत्यामृषादिशब्दपरिग्रहः, तद्वद्भेदः, कुतः? इत्याह-तद्धेतुभेदतः शब्दभेदोत्पत्तेः, सत्यादिभाषाद्रव्यवर्गणानां | | भेदाभ्युपगमादिति ॥ ६५९॥ यतश्चैवमतः किमित्याह-'परमार्थे'त्यादि, परमार्थैकनिष्ठत्वेऽपि शब्दानामन्यदोषोपवर्णनं 'न स्यात्प्रवृत्तिरर्थेष्विति प्रत्याख्यातं हि शब्दानां, निराकृतमित्यर्थः 'इति' एवं सम्यग् विचिन्त्यतामेतत् ॥ ६६०॥ एतदेव स्पष्टयति-'अन्येत्यादिना-'अन्यदोषः' अर्थान्तरभूतवस्तुदोषः 'यत्' यस्मात् 'अन्यस्य' अर्थान्तरस्य 'युक्त्या युक्तः' उपपत्त्या घटमानो न जातुचित् , प्रतिवस्तूपमया प्रकटयति-वक्ति अवर्णम्' अश्लाघारूपं न 'बुद्धानां भगवतां 'भिक्ष्वादिः भिक्षुरुपासको वा, शबरादिवदिति वैधर्म्यनिदर्शनं, तदत्र भिवादितुल्याः सत्यशब्दा इतरे शबरादिवढुष्टा
XANASIASSASSINS