SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० जैनमता धिकारे ॥ ९१ ॥ त्यादि, 'निष्पन्नत्वा' दिति तुल्यकालात्सहकारिणो न विशेषः, विशेष्यस्यैव तदानीं निष्पत्तेः अनाधेयातिशयत्वात्, विशेषस्य चातिशयत्वादिति, असत्त्वाच्चातुल्यकालादप्यन्यतो न विशेषः, तदा तस्यासत्त्वाद्, असतश्चोपकारकरणायोगादिति । द्वयोद्भवोऽपर एव विशेष इत्याशङ्क्याह- 'द्वाभ्यामन्योदयो न सः' द्वाभ्यामित्युपादानसहकारिभ्यां सकाशात् अन्योदय:- विशिष्टापरोत्पादो न सः विशेषः, कुतः ? इत्याह-'उपादानाविशेषेण' पूर्ववदविशिष्टकार्यजननस्वभावत्वातिरस्कारेण, अन्योदयस्यैवासिद्धेरित्यर्थः, तदेव तत्स्वभावं यत्तदवाप्यान्योदयकारीत्याशङ्क्याह-'तत्खभावं तत्कुतः ?' तत्स्वभावमित्यनुपकारिणमपि सहकारिणमवाप्य विशिष्टापरजननस्वभावमेव तद् - उपादानमिति कुतो ?, न कुतश्चिद्, वाङ्मात्रमेतदित्यभिप्रायः ॥ ६५६ ॥ पराभिप्रायमाशङ्कय परिहरति-' न ह्युक्तव' दित्यादिना - न ह्युक्तवत् तुल्यकालोऽतुल्यकालः सहकारी, विशेषाभावेन, 'खहेतोस्तु' स्वकारणादेव तत्स्वभाववत्, तथाहि नास्यापि स्वहेतुरविशिष्टः सन्निदं विशिष्टं जनयति, न चान्यतो विशेषभाव इति केवलस्यैव वैशिष्ट्यमेष्टव्यम्, एवं सर्वत्रैवैतदिति प्रतीतिवैशिष्ट्याभावे तद्वासनाबोधानुपपत्तेरिति, दोषान्तरमाह - स्याच्च नाशः भवतामपि 'सहेतुकः' उत्पादव्यतिरिक्तहेतुसापेक्षः इत्थं प्रकल्पने- स्वहेतोरेवानुपकारि| णमपि सहकारिणमवाप्य विशिष्टा परजनन स्वभावमेतदित्येवं प्रकल्पने, तथाहि - एतदपि वक्तुं शक्यत एव अकिश्चित्करमपि नाशहेतुमवाप्य निवृत्तिस्वभावमेतज्जातमिति विशिष्टोत्पादवत्सहेतुको नाशः, न्यायात् भवत्परिकल्पितादेव, अनिष्टं चैतद् अतः - अस्मात्कारणात् 'एतत्' इत्थंस्वभावकल्पनं न 'युक्तिमत् ' न्याय्यम् । एवं च स्वनीतितो विकल्पानुपपत्तेर्वचनमात्रमेतत्-यदुत दृश्यविकल्पार्थैकीकरणं नाम बाह्यालम्बनस्य विकल्पस्य बाह्यालम्बनत्वेन प्रतिपत्तिः, विरुद्धं चैतद्, ४ ॥ ९१ ॥ वाच्यवा चकभावः
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy