________________
SAUSHUSUSAASAASAASAASANSORSCHE
'अन्ये तु जैनाः 'अभिद्धति' ब्रुवते ‘एवं'-यदुत 'वाच्यवाचकलक्षणः' वाच्यस्वभावोऽर्थः वाचकस्वभावः शब्द इत्येवंरूपः अस्ति शब्दार्थयोः 'योगः' सम्बन्धः, कुत एतदित्याह-'तत्प्रतीत्यादितः' वाच्यप्रतीतिप्रवृत्तिप्राप्तिनिवेदनादे, 'ततः' शब्दादित्यागोपालाङ्गनमेतद् ॥ ६५२॥ (न)सम्भवश्चास्यान्यथेत्यभिधातुमाह-'नैतदित्यादि, न 'एतत्' तत्प्रतिपत्त्यादि दृश्यविकल्पार्थकीकरणेन, दृश्यः-स्खलक्षणं तदेकीकरणेन विकल्प्यं, दृश्यमित्यध्यवस्येत्यर्थः, कथं नैतत् इत्याह-'भेदतः' तयोस्तत्त्वाप्रसिद्धितः इति सम्बन्धः, भेदात्कारणात् तयोः-दृश्यविकल्पार्थयोस्तत्त्वाप्रसिद्धितः-एकीकरण-10 त्वाप्रसिद्धः। अत्रैव हेत्वन्तरमाह-एकप्रमात्रभावाच, नहि क्षणिकत्वे दृश्यविकल्प्यार्थयोः कालभेदेनैकः प्रमातेत्येकीकरणत्वाप्रसिद्धिरेव, स्यादेतत्-दृश्यविकल्प्याथकीकरणं नाम बाह्यालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतिपत्तिः ॥६५॥ तथा चाह-'शब्दादित्यादि, शब्दादिति कारणे कार्योपचारात् तद्ज्ञानात् 'तद्वासनाबोधः' विशिष्टविकल्पवासनाबोधः विकल्पश्च विशिष्टः 'ततो हि तत एव विशिष्टवासनाबोधात् 'यत्' यस्मात् तत्-तस्मात् 'इत्थमुच्यते' दृश्यविकल्प्यावर्था-15 वेकीकृत्येत्येवमभिधीयते अस्माभिः, विकल्पवैशिष्ट्येनेत्यर्थः, एतदाशयाह-न, 'ततः' शब्दात् तदसिद्धितः विशिष्टवासनाबोधासिद्धेरिति ॥ ६५४ ॥ एतदेवाह 'विशिष्टे' त्यादिना-इह 'विशिष्टं' तथाविधविकल्पजननस्वभावं 'वासनाजन्म' वासनोत्पाद एव 'बोधः' वासना, नत्वन्यः कश्चित् , 'तच' विशिष्टवासनाजन्म 'न जातुचित्' न कदाचिद् युज्यते, कथमित्याह-'अन्यतः' अन्यस्मात् सहकारिणः तुल्यकालादेः विशेषेण तुल्यकालात् अतुल्यकालादा 'विशेषः' वैशिप्रकरणलक्षणः 'अन्यस्य' विशेष्यस्य नो यता यस्मात् न्यायेन ॥६५५॥ एतदेव विकल्पदोषोपन्यासद्वारेणाह-निष्पने