________________
शास्त्र ० हारि०
जैनमता
धिकारे
॥ ९० ॥
ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव । स्वरूपालोचनादिभ्यस्तथा दर्शनतो भुवि ॥ ६६२ ॥ समयापेक्षणं चेह, तत्क्षयोपशमं विना । तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥ ६६३ ॥ सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः । वाच्यस्य च तथाऽन्यत्र, नागोऽस्य समयेऽपि हि ॥६६४ ॥ अनन्तधर्मकं वस्तु, तद्धर्मः कश्चिदेव च । वाच्यो न सर्व एवेति, ततश्चैतन्न बाधकम् ॥ ६६५ ॥ अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः । शब्दात्प्रत्येति भिन्नाक्षो, न तु प्रत्यक्षमीक्षते ॥ ६६६ ॥ अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन, दाहार्थः संप्रतीयते ॥ ६६७ ॥ इन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत् । तथाप्रतीतितो भेदाभेदसिद्ध्यैव तत्स्थितेः ६६८ | अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते । असत्त्वाद्वस्तुभेदेन, बुद्धया तस्यापि बोधतः ॥ ६६९ ॥ क्षणिकाः सर्वसंस्काराः, अन्यथैतद्विरुध्यते । अपोहो यन्न संस्कारो, न च क्षणिक इष्यते ॥ ६७० ॥ एवं च वस्तुनस्तत्त्वं हन्त ! शास्त्रादनिश्चितम् । तदभावे च सुव्यक्तं, तदेतत्तुषखण्डनम् ॥ ६७१ ॥ बुद्धावर्णेऽपि चादोषः, संस्तवेऽप्यगुणस्तथा । आह्नानाऽप्रतिपत्त्यादि, शब्दार्थायोगतो ध्रुवम् ॥ ६७२ ॥
शब्दार्थयोर्वाच्य
वाचकभावसिद्धिः
॥ ९० ॥