________________
'अन्ये खित्यादि, अन्ये तु बौद्धा अभिदधति 'एवं' वक्ष्यमाणं, किंभूताः? इत्याह-युक्तिमार्गकृतश्रमाः, जातियु- |क्तिनिष्ठा इत्युपहसति । किमभिदधति ? इत्याह-शब्दार्थयोः, लोके प्रसिद्धयोः, न सम्बन्धः कश्चित् 'वस्तुस्थित्या' परमार्थेनेह विद्यते, तादात्म्यतदुत्पत्त्यभावात् ॥ ६४४ ॥ एतदेवाह-'न तादात्म्य'मित्यादि, न तादात्म्यं, शब्दार्थयो| रिति गम्यते, कुतः? इत्याह-द्वयाभावप्रसङ्गाच, तदेकत्वेन शब्दार्थद्वयस्याभावापत्तेः, तथा 'बुद्धिभेदतः' शब्दार्थयोर्विलक्षणबुद्धिभावात् । तथा 'शस्त्रायुक्तौ क्षुरिकानलाद्यभिधाने 'मुखच्छेदादि[प्रसङ्गात् वदनच्छेददाहप्रसङ्गात्, तथा 'समयस्थितेः' सङ्केतव्यवस्थानादिति ॥ ६४५॥ न तदुत्पत्तिरपि, एतदभिधातुमाह-'अर्थे'त्यादि, 'अर्थासंनिधिभावेन' अर्थासन्निधावपि क्वचित्तच्छब्दभावात् , तथा 'तदृष्टौ' देवदत्ताद्यर्थदृष्टौ 'अन्यथोक्तितः' यज्ञदत्तादिशब्देनोके, न चैतत्तदुत्पत्तौ भवति, यदुत कारणाद्वा तद्भाव? इति, तथा 'अन्याभावनियोगाच' अन्यस्मिन् घटे पटशब्दः (०ब्दस्य) अभावे वान्ध्येयशब्दादेर्नियोगात्-सङ्केताच कारणान्न 'तदुत्पत्तिरपि' अर्थाच्छब्दोत्पत्तिरप्यलं शोभते, न हि यद्यत उत्पत्तिस्वभावं तदन्यभावेऽभावे वा नियोक्तुं शक्यत इति भावः ॥ ६४६॥ दोषान्तरमभिधातुमाह-परमा
'त्यादि, 'परमार्थकतानत्वे' परमार्थैकनिष्ठत्वे शब्दानामिष्यमाणे, किमित्याह-'अनिबन्धना' प्रवृत्तिनिमित्तविकला न स्यात् प्रवृत्तिः, प्रधानेश्वरादिशब्दानां वाचकत्वेन, केषु? इत्याह-'अर्थेषु' वाच्येषु 'दर्शनान्तरभेदिषु' प्रधानेश्वरादिरूपेषु, अन्योऽन्यं तदभावादिति ॥ ६४७॥ तथा 'अतीते'त्यादिना-'अतीताजातयोः' विनष्टानुत्पन्नयोऽप्यर्थयोरसत्त्वे न स्यात्प्रवृत्तिः, तथा 'न च स्यात्' न च भवेत् 'अनृतार्थता' मृषार्थता 'वाचा' कस्याश्चित् , प्रतारकसम्बन्धिन्यात