SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सिद्ध्येत् प्रमाणम् - आगमाख्यं यद्येवमेकवाक्यार्थसंवादित्वेन अप्रमाणमथेह किं ?, नैवं सन्ति किश्चिदप्रमाणं नाम, सर्व पौरुषेयवचनं प्रमाणं, कुतः ? इत्याह- नह्येकं नास्ति सत्यार्थ वाक्यं, किन्तु किञ्चिद्भवत्यपि पुरुषे बहुभाषिणि, घुणाक्षरवदिति सर्वेषां तद्वचनं प्रमाणमिति महाननर्थः ॥ ६३८ ॥ यथैतदसाम्प्रतं तथाऽभिधातुमाह- 'यत एक 'मित्यादि, 'यतः ' यस्मादेकं न सत्यार्थ, घुणाक्षरन्यायेन, किन्तु सर्वमेव यथाश्रुतं यत्रागमे इत्थम्भूत आगमो, न वचनमात्रं, 'इष्यते' अभ्युपगम्यते, कैः ? इत्याह-पण्डितैर्जनैः, मान्यते, आमुष्मिक सिद्धेरिति, तत्त्वज्ञैः ॥ ६३९ ॥ स चेत्थम्भूत इत्याह- 'आत्मे' त्यादिना - आत्मा नामी नारकादिरूपेण परिणामवान्, तथा पृथक्कर्म आत्मनो वस्तुसत्त्वात्, 'तत्संयोगात्' कर्मसम्बन्धात् 'भवः' संसारः, 'अन्यथा मुक्तिः' वस्तुसत्कर्मवियोगान्मोक्षः । तथा 'हिंसादयो' हिंसानृतादयः कर्मसंयोगहेतवः 'मुख्याः' कथञ्चित्तत्क्रियाभाववाच्याः, तथाभणनादिति, निरुपचरिता इत्यर्थः, 'तन्निवृत्तिः' हिंसादिनिवृत्तिर्मुख्या ससाधना, सदुपदेशक्षयोपशमादिना निमित्तेन ॥ ६४० ॥ तस्यैव गुणदोषमाह - 'अतीन्द्रिये'त्यादिना - 'अतीन्द्रियार्थ संवाद : ' चन्द्रोपरागनिमित्तादिसंवादः विशुद्धः संभवस्वरूपफलशुद्ध्या, 'भावनाविधिः' अनि त्यत्वादिभावनामार्गः, यत्र 'इदम्' अनन्तरोदितं 'युज्यते' सम्यग् घटते 'सर्व' निरवशेषं 'योगिव्यक्तः' सर्वज्ञप्रकाशितः स आगम इति, सम्यगागमलक्षणमेतत् ॥ ६४१ ॥ ज्ञोऽज्ञो वाऽस्याधिकारी स्याद् ?, उभयथाऽपि वैयर्थ्यमिति कुवा| दिनिराकरणमाह-'अधिकारी' त्यादिना - अधिकार्यपि चागमस्य 'इह' लोके 'स्वयम्' आत्मना अज्ञेो हि यः पुमांस्तदर्थस्य, कथितज्ञः पुनः, नतु कथितमपि यो न जानात्येव, अत एवाह- 'धीमान्' बुद्धिमान्, 'तद्वैयर्थ्य' आगमवैयर्थ्यम्,
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy