________________
शास्त्र ० हारि०
जैनमता
धिकारे
1120 11
तदस्तीति । स्यादेतत्-संभवति तदित्यत्राह - सम्भवोऽस्येति वर्त्तते न्याययुक्त एव भणितप्रकारेण, पूर्वमेव ' दोषाणां हा सेत्यादिना निदर्शित इति समानमेतत् ॥ ६३३ ॥ अस्यैव ज्ञानसम्भवमाह - 'प्रातिभेत्यादिना - प्रातिभालोचनं तावद् व्याध्यादिपरिणामविषयमिदानीमपि अतीन्द्रिये व्याध्यादिपरिणाम एव सुवैद्यसंयतादीनां महाप्राज्ञानां केषाञ्चित् अविसंवादि दृश्यते अर्थक्रियाद्वारेणेति ॥ ६३४ ॥ दृष्टान्तमभिधाय दार्शन्तिक योजनामाह - 'एव' मित्यादिना - एवं यथा सुवैद्यानां 'तत्रापि' गुणवत्पुरुषे 'तद्भावे' तद्विशिष्टचेष्टोपलब्ध्या प्रातिभगुणालोचनभावे न विरोधोऽस्ति कश्चन, अस्य साक्षाद्दर्शिनोऽपि यथार्थं संभवत्येतदित्यर्थः । तथा तद्व्यक्तार्थाविरोधादौ तेन - गुणवता व्यक्तो य आगमः तदर्थाविरोधसम्भवाद् व्याससंवादादौ विषये 'ज्ञानभावाच्च' ज्ञानोत्पत्तेश्च कारणात् साम्प्रतमिदानीं, न विरोधोऽस्ति कश्चन इत्यनुवर्त्तते ॥ ६३५ ॥ यदि नाम दृष्टे संवादः अदृष्टे किमायातमित्याशङ्का पोहायाह- 'सर्वत्रे' त्यादिना - सर्वत्र दृष्टे, तद्व्यकार्थे, संवादाद्धेतोः 'अदृष्टे' धर्मादौ 'नोपजायते' न प्रवर्त्तत एव 'ज्ञातु:' प्राज्ञस्य 'विसंवादाशङ्का' किमित्थमन्यथा वा ? इति, कुतः ? इत्याह- 'तद्वैशिष्ट्योपलब्धितः' तस्य - व्यञ्जकस्य वा व्यक्तस्य वा सा माध्यस्थ्याद्युपायाभिधानादिवैशिष्ट्योपलब्धेः ( ०ब्धिःतत ) ॥ ६३६ ॥ प्रातिभेन यदि नाम नोपजायते तथाऽपि वस्तुस्थित्यां तत्प्रातिभं विसंवादकं स्यादित्याशङ्कानिवृत्त्यर्थमाह- ' वस्त्वि' त्यादि, 'वस्तुस्थित्यापि परमार्थेनापि तत्तादृक् प्रातिभं मार्गानुसारि, न विसंवादकं भवेत्, किन्त्वविसंवादकमेव, कुतः ? इत्याह-यथोत्तरं क्रियाप्रवृत्तौ 'तथादृष्टेः' सुवैद्यप्रातिभवदविसंवादकत्वेन दृष्टेः । 'इति च' एवं च सति 'एतत्' वक्ष्यमाणं 'न साम्प्रतं' न शोभनम् ॥ ६३७ ॥ किं तदित्याह - 'सिद्धयेदि त्यादि,
सर्वज्ञोतागमनिश्चयः
11 2011