SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तत्रैव, किमित्याह - 'दुर्लभत्वात्प्रमाणानां' परचेतसामप्रत्यक्षत्वात् 'दुर्बोधा' दुर्ज्ञाना, इत्यपरे विदुः - अन्ये त्वेवं जानन्ति ॥ ६२८ ॥ वार्त्तान्तरमभिधातुमाह- 'अत्रापी' त्यादि, 'अत्रापि' अनन्तरोदितविचारे बुवते वृद्धाः आगमवादिनः, किमि - त्याह- 'सिद्ध' प्रतिष्ठितम् 'अव्यभिचार्यपि' नियमवदपि लोके गुणदोषविज्ञानम्, अन्यत्र कथमित्याह - सामान्येन प्रज्ञया न साक्षात्कारेण 'महात्मनां' प्राज्ञानामित्यर्थः ॥ ६२९ ॥ एतदेव दर्शयितुमाह- 'तन्नीती' त्यादि, 'तन्नीतिप्रतिपश्यादेः दिग्नागाचार्यनीतिप्रतिपत्तेः सम्यगुद्योतनात् सामान्येन यद्गुणज्ञानं सिद्धं तन्नीत्या जातकस्य, 'अन्यथा' यद्येवं नेष्यते ततः 'तत्' नीतिप्रतिपत्त्यादि न युक्तिमत् अप्रेक्षापूर्वकारिनीतित्वेन, एवं सामान्येन गुणज्ञानं सिद्धमित्याह, विशेषज्ञानमप्येवं गुणादिविषयमन्यत्र 'तद्वत्' सामान्यवद् अभ्यासतो न किं ?, भवत्येवेत्यभिप्रायः ॥ ६३० ॥ एतदेवाह - 'दोषाणा' मित्यादि, 'दोषाणां' रागादीनां ह्रासदृष्ट्येह प्रतिपक्षबलेन लोके 'तत्सर्वक्षयसम्भवात् तेषां - रागादीनां सर्वक्षयोपपत्तेः, प्रतिपक्षोत्कर्षेण, 'तत्सिद्धौ' सामान्येन गुणवत्पुरुषसिद्धौ ज्ञायते 'प्राज्ञैः' तदुक्तपरीक्षाक्षमैः 'तस्य' गुणवत्पुरुषस्य 'अतिशय इत्यपि' विशेषोऽपीति भावः ॥ ६३१ ॥ यथा ज्ञायते तथाऽभिधातुमाह-'हगते' त्यादि, हृद्भताशेषसंशयनिश्चयप्रभावेन, आदिशब्दादन्यत्र दृष्टेष्टाविरुद्धोक्तिसामर्थ्येन च तदात्वे द्वयादप्यतो ज्ञायते तस्यातिशयः, 'वर्त्तमाने तु' साम्प्रतं पुनः 'तद्व्यक्तार्थाविरोधत:' तेन गुणवताऽभिव्यक्तो य आगमस्तदर्थाविरोधेन केवलेनेति ॥ ६३२ ॥ एवंभूतोऽपीदानीं न दृश्यतेऽतो नास्त्येवेत्याशङ्कानिवृत्त्यर्थमाह-'नचे' त्यादिना - न च 'अस्य' अशेषसंशयनिश्चय कर्त्तुरदर्शनेऽपि 'अद्य' साम्प्रतं साम्राज्यस्येव नास्तिता, किन्त्वस्तितैव, नहीदानीं साम्राज्यमपि दृश्यते, तथा च
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy