________________
SSASSASSUOSISAARI
'सर्वज्ञेने त्यादिना-'सर्वज्ञेन हि सर्वज्ञेनैव 'अभिव्यक्तात्' प्रकाशितात् 'सर्वार्थात् सर्वविषयात् आगमात्परा नान्या इति, केत्याह-'धर्माधर्मव्यवस्था' एवं धर्म एवमधर्म इति नीतिः इयं युज्यते, यथोक्तमस्माभिः, नान्यतः प्रमाणात् क्वचिद्-भुवनेऽपि ॥ ६२६ ॥ वार्त्तान्तरमाह-'अत्रापी'-त्यादिना
अत्रापि प्राज्ञ इत्यन्य, इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत, ज्ञातुं सोऽतिशयो यदि ॥६२७॥ है अयमेवं नवेत्यन्यदोषो निर्दोषताऽपि वा । दुर्लभत्त्वात्प्रमाणानां, दुर्बोधेत्यपरे विदुः ॥ ६२८ ॥
अत्रापि ब्रुवते वृद्धाः, सिद्धमव्यभिचार्यपि । लोके गुणादिविज्ञानं, सामान्येन महात्मनाम् ॥ ६२९ ॥ तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं, तद्वदभ्यासतो न किम् ? ॥ ६३०॥ दोषाणां हासदृष्ट्येह, तत्सर्वक्षयसम्भवात् । तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि ॥ ६३१॥ हृद्गताशेषसंशीतिनिर्णयादिप्रभावतः। तदात्वे वर्तमाने तु, तद्व्यक्तार्थाविरोधतः ॥ ६३२ ॥ न चास्यादर्शनेऽप्यद्य, साम्राज्यस्येव नास्तिता । सम्भवो न्याययुक्तस्तु, पूर्वमेव निदर्शितः ॥ ६३३ ॥ प्रातिभालोचनं तावदिदानीमप्यतीन्द्रिये । सुवैद्यसंयतादीनामविसंवादि दृश्यते ॥ ६३४ ॥ एवं तत्रापि तद्भावे, न विरोधोऽस्ति कश्चन । तद्व्यक्तार्थाविरोधादौ, ज्ञानभावाच्च साम्प्रतम् ॥६३५॥
ROSHIRISANA CAROL