SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वक्तव्यापारवैकल्ये वेदशब्दे आशङ्का 'अदृश्यकर्तृसमुद्भवा' पिशाचकर्तृविषया न निवर्तते, प्रेक्षापूर्वकारिण इति योगः, किं न निवर्तत एव ?, नेत्याह, अतीन्द्रियार्थद्रष्टारमन्तरेण, यदि त्वसौ भवति ततस्तद्वचने निवर्त्तत इति ॥ ६१६ ॥ पराभिप्रायमाशय परिहरन्नाह-पापादि'त्यादि, पापात् कर्मणः 'अत्र' वेदे 'ईदृशी बुद्धिः' विकल्पबुद्विः, एतदाशझ्याह-'न पुण्यात्' न पुण्येनेदृशी बुद्धिरिति ?, 'न प्रमा' नात्र प्रमाणं, लोकःप्रमाणमित्याशझ्याह-'न लोको हि'न लोक एवात्र प्रमाण, कुतः इत्याह-विगानत्वात्, वेदापौरुषेयत्वं प्रति यद्यपि विगानं तथाऽपि बहवोऽस्मत्पक्ष एवेत्याशझ्याहतद्बहुत्वाद्यनिश्चितेः, सर्वस्यादर्शनादिति ॥ ६१७॥ किञ्च-बहूना'मित्यादि, बहूनामपि प्रमातृणां संमोहभावात्, कुतश्चिद्धेतोः तत एव मिथ्याप्रवर्त्तनात्, पारसीकवन्मातृविवाहे, तथा मान(संख्या)विरोधाच, लोकमानत्वे सप्तमानापत्त्या कथमित्थमिदं ननु यदुत "पापादत्रेदशी बुद्धि" रित्यादि ॥ ६१८ ॥ एवं त्विदं भवेदपीत्याह-'अतीन्द्रिये'त्यादि, अतीन्द्रियार्थद्रष्टा तु सर्वज्ञ इत्यर्थः पुमान् कश्चिद्यदीष्यते ऋषभोऽन्यो वा, ततः किमित्याह-संभवद्विषयाऽपि स्यात्, तदुपदेशज्ञानसामर्थेन, एवंभूताऽर्थकल्पना-यदुत "पापादत्रेदशी बुद्धि"रित्यादि ॥ ६१९ ॥ दोषान्तराभिधित्सयैतदेवाह -'अपौरुषेयते'त्यादिना-एवमुक्तन्यायाद् अपौरुषेयताऽपि 'अस्य वेदस्य नान्यतो ह्यवगम्यते, किन्वित एव सर्वज्ञात्, ननु चात्र हेतवः सन्तीत्येतदाशयाह-कर्तुः अस्मरणादीनां वक्ष्यमाणानां 'व्यभिचारादिदोषतः' अनैकान्तिकासिद्धदूत्वदोषादिति ॥ ६२० ॥ एतदेवाह-'नाभ्यासे'त्यादिना, 'नेति प्रतिषेधः, अभ्यासः कर्मणां सत्यमुत्पादयति कौशलम् । धात्राऽपि तावदभ्यस्तं, यावत्सृष्टा मृगेक्षणा ॥१॥ अन्ये तु पश्चार्द्धमन्यथा पठन्ति-"मिथ्या तत् तादृशी येन, न धात्रा शा.स.१५
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy